Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 299
________________ २५८ तर्कतरङ्गिणी सिद्धत्वं स्यादिति । तथा च यत्र हेतौ यत्साध्यनिरूपिता 'व्याप्ति स्ति, स हेतुः तत्साध्ये व्याप्यत्वासिद्ध इत्यर्थः । न तु स्वरूपासिद्धादावपि व्याप्यत्वं सिद्धत्वं स्यादिति । तथा च यत्र हेतौ यत्साध्यनिरूपिता व्याप्तिः नास्ति, स हेतुः तत्साध्ये व्याप्यत्वासिद्ध इत्यर्थः । ननु स्वरूपासिद्धत्वादावपि इदं लक्षणमतिव्याप्तम् यथेयं गौरश्वत्वात्, अयं हेतुः स्वरूपासिद्धः व्याप्यत्वासिद्धश्च । अत्रातिव्याप्तेरभावात् व्याप्यत्वासिद्धं स्यादिति चेत् न । इष्टापत्तेः पुरःस्फुर्तिकत्वात्। प्रतिबन्धकं च भिन्नरूपेण व्याप्यत्वासिद्धस्य प्रतिबन्धकत्वं व्याप्तिविरहत्वरूपेण, असिद्धस्य तु पक्षवृत्तित्वेन रूपेण, विरुद्धस्य साध्यतासमानाधिकरणज्ञानत्वेन रूपेणेति भिन्नभिन्नरूपेण प्रतिबन्धकत्वम् । ततः सङ्करो दोषाय न भवतीत्युक्तमेव । यत्सदिति - अत्र सत्त्वं भवति हेतुः, यत् शब्दः पक्षः क्षणिकत्वं साध्यम् । अयं व्याप्यत्वासिद्धो भवति । हेतोः सत्त्वस्य क्षणिकत्वरूपसाध्येन सहचाराभावात् । अत्र शङ्कते-अत्रेति यदि क्षणिकत्वं कुत्रापि प्रसिद्धम् तदा कथं तस्य सत्त्वेन सममसहचारः? यदि च क्षणिकत्वमप्रसिद्धं तदाऽपार्थकता अप्रसिद्धता-एव दोष इति शङ्कार्थः । अस्येति तथा चेदं विरुद्धस्यैवोदाहरणं यतो विरुद्धत्वं नाम साध्यसमानाधिकरणत्वं हेतौ विरुद्धत्वम् । तथा च सत्त्वे हेतौ क्षणिकत्वसामानाधिकरण्यं तिष्ठतीति विरुद्धत्वमेवास्य न व्याप्यत्वासिद्धत्वम् । “घन इति ननु न्यायमते घने क्षणिकत्वासम्भवेनासङ्गातिरिति चेत् न । घनपदेन चरमशब्द, एव ग्राह्यः । तथा च चरमे शब्देऽक्षणिकत्वं नैयायिकैरपि स्वीक्रियते । तस्यैव दृष्टान्तत्वं बोध्यमिति मनसि कृत्वा आहसंश्वेति तथा चानुमानप्रकारकोऽयं चरमशब्दातिरिक्तः शब्दः क्षणिकः सत्त्वादिति हेतुः, चरमशब्दवदिति । अन्यथाऽनुमानप्रकार एव न क्रियते । तथाहि यद्ययं व्याप्यत्वासिद्ध एव तदा क्षणिकत्वस्य सत्त्वे व्याप्ति र्नास्तीति प्रभाणाभावाद् व्याप्यत्वासिद्धः । यत्रोपाधिरिति मूलम् तथा च यदि व्यभिचारित्वेन हेत्वाभासत्वं व्याप्यत्वासिद्धस्य, तदा चावश्यकत्वाद् व्यभिचार एव हेत्वाभासो भवतु । किन्तु व्याप्यत्वासिद्धेनातिरिक्तेनेति । ___ अयमर्थः-व्याप्यत्वासिद्धस्तु स एव ज्ञेयः, यत्र हेतौ व्याप्तेविरहः । व्याप्तिविरहश्च द्विविधो भवति-एको विशेष्यं यत्साध्यसमानाधिकरणरूपं तदभावप्रयुक्तः । द्वितीयस्तु विशेषणाभावप्रयुक्त:विशेषणं भवति । तथा च द्वितीयं व्युत्पादयति यत्रोपाधिरिति तथा च यत्र हेतौ उपाधिस्तिष्ठति तत्रावश्यमव्यभिचाराभावरूपो व्यभिचारस्तिष्ठति । तेन तत्र हेतौ व्याप्ति नास्ति । अव्यभिचाररूपविशेषणविशिष्टसाध्यसामानाधिकरण्याभावात् । व्याप्तिस्त्वव्यभिचारि-विशिष्टसाध्यसमानाधिकरणरूपैव । तथा चात्र यद्यपि विशेष्यं साध्यसामानाधिकरण्यरूपमस्ति तथाप्यव्यभिचाररूपं १. B व्याप्तिसद्धेतुः तत्साध्ये. २. B -श्वात्. ३. B -चारम् ?. ४. It is जलधर in त.भा.प्र. ५. व्याप्तिरस्तीति (!). ६. B भवति. ७. B -रूपः. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306