Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 304
________________ तर्कतरङ्गिणी [३७] जातिग्रन्थः । जातिग्रन्थे यस्मिन्नुत्तरे कुत्रचिद् व्याप्ति स्ति, कुत्रचिद् पक्षधर्मता नास्ति - इत्यसदुत्तरत्वम् । स्वतन्त्रेच्छत्वादिति सूत्रकारस्तु स्वतन्त्रेच्छो भवतीति भावः । पक्षनिष्टस्येति पक्षे वर्तते यो धर्म:एतादृशो यः स पक्षधर्मः । स एव परेणोक्तं यत्साधनम्, तस्याव्यापको भवति । तस्य परोक्तादेव साधनादेव हेतोः यदापादानम्, सा उत्कर्षसमा जातिरित्यर्थः । तथा चेति एकनिर्वृत्त्या कृत्वाऽपरस्य निर्वृत्तिरनिष्टा भवति । तदापादाने अपकर्षसमा जातिरित्यर्थः । शेषं सुगमम्। [३८] उपसंहारः । यद्यपि संशयादीनामपि प्रायः प्रमेयान्तर्गतत्वेन भेदेन व्युत्पादनमयुक्तम् 'तथापि तेषां तत्त्वज्ञानजननद्वारा भिन्नभिन्नरूपेण प्रयोजकत्वमिति भेदेन व्युत्पादनं महर्षेराशयः । ___ इति श्रीमद्खरतरगच्छाधीश्वर 'युगप्रधान श्रीजिनचन्द्रसूरिविजयिनि(!) श्रीजिनमाणिक्यसूरिशिष्य श्री विनयसमुद्रगणीनां शिष्येण वाचकगुणरत्नगणिना "गोवर्धनप्रकाशिकातर्कतरङ्गिणी नाम्नी 'सन्दृष्टा-('इति श्री तर्कतरङ्गिणीटीका) समाप्ता। श्रीमद्रनविशालाख्यः स्वशिष्याधीतिहेतवे । गुणरत्नगणिश्चक्रे टीका तर्कतरङ्गिणीम् ॥१॥ श्रीमद् खरतरगच्छे श्री जिनमाणिक्यसूरयोऽभुवन् । तेषां शिष्या गणयो विनयसमुद्राभिधाजयिनः ॥२॥ तेषां शिष्यैरतद्विद्वद्गुणरत्नवाचना(का)चायः । .. निजवचनैकहेतौऽपरं श्रुतदेवताभक्त्यै ॥३॥ इति प्रशस्तिः ॥ शुभं भवतु ॥ कल्याणमस्तु लेखकपाठकयोः ॥ श्रीः ॥ श्रीः ॥ श्रीः ॥ १. गुणरत्न rightly does not discuss निग्रहस्थान the last पदार्थ here, as it is already discussed in the वादप्रकरणम् । गोवर्धन also writes निग्रहस्थानविशेषास्त्वस्माभिः पूर्वमेव निरुक्ता नेहोच्यन्ते । (त.भा.प्र पृ. ११३). २. B तथा तेषां. ३. B om its the reading between युगप्रधान.........विजयिनि. ४. B गोवर्धनी प्रकाशिकां. ५. B दृष्ट्वा . ६. B omits the readings between इति श्रीतर्कतरङ्गिणी टीका. ७. B adds here कल्याणमस्तु । श्रेयः ॥ ८. All of these verses including the remaining portion are not found in A. ___Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306