________________
२५९
तर्कतरङ्गिणी विशेषणं नास्तीति विशेषणाभावप्रयुक्तविशिष्टाभावोऽस्तीति । अनेन रूपेणाप्यनुमिति प्रति प्रतिबन्धकत्वात् व्याप्यत्वासिद्धत्वमिति सङ्करो न दोषाय । (III) विरुद्धः।
_ विरुद्धग्रन्थो यथा-साध्याभावव्याप्यो विरुद्ध इति विरुद्धलक्षणम् । तथा च यत्र हेतौ साध्याभावनिरूपिता व्याप्तिस्तिष्ठति स एव विरुद्धः । यथेयं गौरश्वत्वादियं वा पृथिवी, जलत्वाद्इत्यत्राश्वत्वं पृथिवीत्वं वा साध्यं भवति । गोत्वं पृथिवीत्वं च तदभावेन' गोत्वाभावेन पृथिवीत्वाभावेन च सममश्वत्वजलत्वयोः क्रमेण व्याप्तिरस्ति ।
अत्र शङ्कते - नन्विति अत्र लक्षणे नैयत्यांशो नाम व्याप्यभागमध्ये नियमेन सहचार' इति । तथा च नियमांशं परित्यज्य सहचारमात्रं ग्राह्यम् । तथा चेदं लक्षणमस्तु साध्याभावसमानाधिकरण विरुद्ध इति वाच्यः । तथा चानेन रूपेण विरुद्धोऽपि संगृहीतः । व्यभिचारोऽपि साध्याभाव समानाधिकरणत्वात् ततो विरुद्धो हेत्वाभासः किमर्थं वाच्य इत्याशङ्कार्थः ।
"समाधत्ते-सहचारस्येति तथा च साध्येन सममसहचरितोऽसमानाधिकरणो हेतुः स विरुद्धः। व्यभिचारस्तु साध्याभावासमानाधिकरणत्वे सति साध्यसमानाधिकरणः । सत्यन्तं च सद्धेतावतिव्याप्तिवारणाय । सतो भिन्नत्वेन रूपेणानुमितिप्रतिबन्धकत्वाद्विरुद्धोऽपि व्यभिचारिणो भिन्न एव हेत्वाभास इति भावः व्यभिचारग्रन्थे । (IV ) अनैकान्तिकः ।
संशय हेतुरिति - तथा च संशयो येन जन्यते सोऽनैकान्तिकः, द्वितीयलक्षणार्थः सव्यभिचार इति यत्र व्यभिचारस्तिष्ठतीत्यर्थः । पूर्वमिति प्रथमलक्षणपक्षे संशयहेतुत्वमात्रमुक्तम् । द्वितीयलक्षणे कोटिद्वयोपस्थापकत्वम् । सव्यभिचारपदेन साध्यसमानाधिकरणत्वे सति साध्याभावसमानाधिकरणत्वम् । तथा च यः “साध्यसाध्याभावरूपकोटिद्वयोपस्थापकत्वं सव्यभिचारस्य बोध्यमित्यनयोर्लक्षणयोर्भेदः । अन्यथा पुनरुक्त स्यादित्यर्थः ।
अत्रेति साधारणानेकान्तिकस्य पक्षवृत्तित्वेन विपृक्षवृत्तित्वेन च कोटिद्वयमुपस्थापितम् । तथा च यो हेतुः पक्षेऽपि वर्तते, विपक्षेऽपि वर्तते, स हेतुः स्वसाध्यं साध्याभावं च स्मारयतीति कोटिद्वयस्मारकत्वम् । तदनन्तरं कोटिद्धयस्मरणरूपकारणसत्त्वेन सन्देहो जायते । यथा वह्नि धूर्मव्याप्तो वा धूमाभावव्याप्तो वा । तथा च वह्नौधूमव्याप्तिनिश्चयो न भवतीति व्याप्तिज्ञानं प्रति व्यभिचारज्ञानं १. B omits तदभावेन. २. B -सहचारमात्रं ग्राह्यम् । तथा चेदं. ३. B adds व्यभिचारोऽपि संगृहीतः. ४. B om its समाधत्ते. ५. B -याभावरूपे कोटि..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org