Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 294
________________ तर्कङ्ग २५३ साध्यतावच्छेदकावच्छिन्नसाध्यप्रतियोगिकात्यन्ताभाववद्वृत्तिहेतुरिति ज्ञानं तिष्ठति तदा व्याप्तिज्ञानं न इति ग्राह्यं प्रति ग्राह्याभावज्ञानस्य प्रतिबन्धकत्वात् । अत्र हि ग्राह्याभावेऽतिव्याप्तिः । तस्यैकदेशो भवति व्यभिचाराभावस्तस्याभावो भवति व्यभिचारः, तज्ज्ञानमव्यभिचारिज्ञानं प्रति प्रतिबन्धकम् । व्याप्तिस्त्वव्यभिचारघटितैव' । तथा च व्यभिचाररूपहेत्वाभासस्य व्याप्तिज्ञानं प्रत्येवं प्रतिबन्धकत्वम्, न तु परामर्शं `प्रतीति बाधसत् प्रतिपक्षयोरनुमितिं प्रत्येव प्रतिबन्धकम् । यदा बाधो भवति पर्वतो वह्न्यभाववान् तदा पर्वतो वह्निमानित्यनुमिति र्न जायते । तथा च परामर्शस्य प्रतिबन्धकः उपाधिः, तदन्यो भवति व्यभिचारादिः । तदनपेक्षत्वे सत्यनुमिति मात्रं प्रति यज्ज्ञानं प्रतिबन्धकं तद्विषयत्वं हेत्वाभासत्वम् । यथा तिष्ठति चेदं लक्षणं व्यभिचारादौ कथं विशेष्यदलमनुमितिप्रतिबन्धकीभूतं ज्ञानं व्यभिचारज्ञानं तद्विषयत्वं व्यभिचारे तिष्ठतीति तस्य हेत्वाभासत्वम् । सत्यन्तं चोपाधावतिव्याप्तिवारणार्थम् । उपाधौ यद्यपि परंपरयाऽनुमितिप्रतिबन्धकत्वं वर्तते, अनुमितिप्रतिबन्धकं भवति व्यभिचारज्ञानं तदुपाधिनोन्नीयते । अत एव व्यभिचारज्ञानोत्थापक तयोपाधिदूषकत्वम् । एवमस्मिन् विशेषणे सत्यन्तं दत्ते उपाधौ नातिव्याप्तिः । कुतोऽति व्याप्ति र्न भवतीति चेत्, न । यथा परामर्शप्रतिबन्धकीभूतो भवत्युपाधिः, तदन्यो यः पदार्थः व्यभिचारः, तदनपेक्षत्वमुपाधौ नास्ति । यदा ह्युपाधिनाऽनुमितिः प्रतिबध्यते, परामर्शो वा प्रतिबध्यते, तदा च स्वान्यमनपेक्ष्य न प्रतिबध्यते । व्यभिचारमपेक्ष्य परामर्शप्रतिबन्धकात् । व्यभिचारादीनां तु हेत्वाभासानामनुमितौ व्याप्तिज्ञाने प्रतिबन्धकत्वे किं स्यात्, यत्किञ्चिदन्यद्वारं नापेक्ष्यते इति हेत्वाभासत्वम् । तथा चायमत्र निष्कर्ष:- अनुमिति र्व्याप्तिज्ञानान्यतरत्प्रति प्रतिबन्धकज्ञानविषयत्वं हेत्वाभासत्वम् । अत एव मणिकारेणोक्तं- अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वम् । तद् यथा श्रुते तु व्यभिचारादौ लक्षणमव्याप्तम् । कथम् ? व्यभिचाराभावस्तु अनुमितिं प्रति कारणं न भवति, किन्तु व्याप्तिज्ञानं प्रत्येव तस्य कारणत्वात् । ततो मदुक्ते लक्षणे निष्कृतं तात्पर्यम्-यथा किञ्चिद्धेत्वाभासज्ञानं व्याप्तिज्ञानं प्रति प्रतिबन्धकम्, किञ्चिच्चानुमितिं प्रतीत्यनुमितिव्याप्तिज्ञानान्यतरत् प्रति प्रतिबन्धकं ग्यज्ज्ञानं तद्विषयत्वं हेत्वाभासत्वम् । तथा च व्यभिचारेऽपि व्याप्तिज्ञानं प्रति प्रतिबन्धकत्वान्नातिव्याप्तिः । तिष्ठति चेदं व्यभिचारिणि यथा धूमवान् वह्नेरित्यत्र धूमाभाववद्वृत्तिर्वह्निरिति ज्ञाने विद्यमाने व्याप्तिज्ञानं तद्भिन्नं न भवति । गच्छति चेदं विरुद्धे - यथेयं गौरश्वत्वादित्यत्र गोत्वासमानाधिकरणाश्वत्वमिति ज्ञाने विद्यमानेऽश्वत्वे गोत्वनिरूपितव्याप्तिज्ञानं न जायत इति व्याप्तिज्ञानं प्रति विरुद्धज्ञानस्य प्रतिबन्धकत्वम्। १. B घटवानेव (!). २. B परामर्शप्रतिबन्धकोभवति प्रतीति (!). ३. B तज्जावं. ४. B -भिचारादेः. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306