Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad
________________
तर्कतरङ्गिणी
२५१ नास्तीत्यसम्भवः।
समाधत्ते-कथासामान्यलक्षणं सिद्धान्तयति-वादीति । वादी अथ च प्रतिवादी, तदपेक्षया योऽन्यः तस्य यदभिधानम्, तेन यत्कथितं वाक्यम्, 'तदवृत्ति तत्र यन्नवर्तते, तत्त्वे सतीति । अथ च स्थापनावादिनो मूलसाध्यवादिनो यत्साधनाभिधानं साधनार्थं कथनम्, प्रतिवादिग्नश्च यदूषणाभिधानं तद्वृत्तित्वे सति यत्र यद् वर्तते वाक्यम्', तदधिकरणीभूतं यत् तस्य यन्निपादनम्, तत्र यद्देशस्तत्र प्रवृत्तौ यौ वादिप्रतिवादिनौ, तयोरन्यतरेण साधनं दूषणं च, तदन्यतरत्वस्य कथात्वस्वरूपत्वम् ।
तथा चास्यायं निष्कर्षः-यत्र वादिप्रतिवादिभ्यां विचारः क्रियते-यथैकेन स्वपक्षस्थापनमपरेण च तत्रैव दूषणं दीयते, एतादृशं वादिप्रतिवादिवाक्यम्, तस्यैव समूहस्य कथात्वमित्यर्थः । अतो न पूर्वोक्तदोषः । तटस्थादिभिः बहुभिर्मिलित्वा यत्र विचारः क्रियते, तत्र पूर्वमति[व्याप्तिः]क्रियते । तत्र पूर्वमतिव्याप्तिर्दत्ता, तदुद्धारार्थम् । तथा च तत्र यद्वर्तते वाक्यत्वं तत्र वादिप्रतिवाद्यन्याभिधानवृत्तित्वं नास्तीति न तत्रातिव्याप्तिः । “द्वितीयवृत्त्यन्तं चानुवादेऽतिव्याप्त्युद्धारार्थम्, अनुवादवाक्यत्वे स्थापनावादिसाधनाभिधाने प्रतिवादिदूषणाभिधानवृत्तित्वं नास्ति । यद्यप्यनुवादवाक्यत्वे स्थापनावादिस्थापनावृत्त्यभिधानवृत्तित्वं वर्तते तथापि प्रतिवादिदूषणाधिानवृत्तित्वं नास्तीति न तत्रातिव्याप्तिः । अव्याप्तिवारणार्थं च प्रवृत्तिवादिप्रतिवाद्यन्यतरसाधनदूषणान्यतरत्पपदम् । तथा च पूर्वमतिव्याप्तिस्तत्र दत्ता यत्र वादिनोक्ते प्रतिवादिना अप्रतिभया किमपि नोक्तम् । तत्रातिव्याप्तिर्दत्ता । तद्वारणार्थं च प्रवृत्तौ यौ वादिप्रतिवादिनौ, तदन्यतरसाधनदूषणान्यतरत्वं नास्ति । तत्र यद्यपि वादिनः साधनत्वं वर्तते तथापि प्रतिवादिदूषणत्वं नास्तीति नाति व्याप्तिः ।
विशेषणत्रयमिति-वादजल्पवितण्डारूपं त्रयम्-एकस्मिन् वादिप्रतिवादीत्यादि लक्षणं तिष्ठत्येष । यत्र वादो वा वितण्डा वा जल्पो वा, तत्र सर्वत्र वादिप्रतिवादिनोः सत्त्वाल्लक्षणगमनम्। त्रय एव विशेषा इत्याशङ्कते । तथा च यथैतास्तिस्रः कथाः । तथा यथैका वादरूपा (१) अपरा विजिगीषु कथा जल्परूपा (२) तृतीया तत्रैव विजिगीषु कथा या वितण्डारूपा । (३) ।
चतुर्थी च तत्त्वबुभुत्सुकथायामपि वितण्डा स्यातृत्तीयावदिति । (४) । एताः सनातनपण्डितेन लिखिताः सन्तीत्याशङ्कर्थः ।
___ इदं दूषयति-नेति तत्त्वबुभुत्सुनाऽपि स्वपक्षस्थापनं क्रियते एवेति न तत्र वितण्डा, परं तत्त्वनिर्णिनीषोरपि विजिगीषु कथा काचिच्चतुर्थी वादवितण्डात्मिकारूपा भविष्यतीति १. B तद्वृत्ति. २. B omits इति. ३. B प्रतिवादिना च. ४. B तत्र. ५. B वाक्यत्वम् . ६. B -वादिनः. ७. B -न्यतरस्य. ८. A omits the reading between द्वितीयवृत्त्यन्तं........तत्रातिव्याप्तिः. १. B प्रवृत्तिवादि.. १०. सत्त्वल..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306