Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 293
________________ २५२ तर्कतरङ्गिणी रत्नकोशकारमतम् । तद्रूषयति-तन्नेति-तत्त्वनिणिनीषो विरुद्धच्छाद्वयं न जायते एव । एकैव तत्त्वविचारात्मिका । तथा च चतुर्थी कथा न सम्भवतीति दिक् । [३५] हेत्वाभासप्रकरणम् । (1) हेत्वाभासलक्षणम् । अथ हेत्वाभासग्रन्थः । शङ्कते-नन्विति-यत्र हेतौ पक्षधर्मता नास्ति, अथवा यत्र सपक्षे सत्त्वादिकं नास्ति । तच्चेति - यदि प्रत्येकं-तदानुगमः । तथा च यत्र पक्षधर्मता नास्ति इतीदमेव लक्षणे यदि हेत्वाभासानां लक्षणं क्रियते तदा यत्र हेतौ विपक्षाद् व्यावृत्तिः-तदर्थवृत्तिर्नास्ति', अर्थात् व्यभिचारिणि-तत्र हेत्वाभासत्वं न स्यात् । लक्षणे पक्षधर्मताविरहमात्रस्यैवाङ्गीकृतत्वादित्यत्रापि एकतरानुगम इत्याशङ्कार्थः । यदि चान्यत्वस्यान्योन्यत्वं लक्षणं कृतम्, तदाऽर्थविशेषणता । यथा पक्षधर्मतादिविरहादन्यद्विश्वं तदन्यत्वमत्रैवेति तथा व्यर्थविशेषणम्, प्रतियोगिन्यवच्छेदकस्यैकस्याभावात्। यथा पक्षधर्मताविरहादय: पञ्चप्रतियोगिनः, तेष्वनुगतो एको धर्मा नास्ति, पक्षधर्मत्वादीनां भिन्नत्वात्। तदन्योन्याभावस्तु तदा गृहीतुं न शक्यते यदि प्रतियोगितावच्छेदकोऽनुगतः कश्चिदायाति । तथा च यदि प्रतियोगितावच्छेदको धर्मो एको नायाति तदा प्रतियोगिविशेषणं व्यर्थमेव । तथा च प्रतियोग्यनुगतधर्माभावेन तदन्योन्यत्वं परस्परं पञ्चष्वपि तिष्ठतीति। तथा च पक्षधर्मताविरहान्यत्वं विपक्षवृत्तावपि हेतौ तिष्ठति । अथ च विपक्षवृत्त्यन्यत्वं विपक्षाताविरहवति हेतौ तिष्ठतीत्येवं परस्परमन्यत्वे विद्यमानेऽन्योन्यत्वं वक्तुमशक्यमिति व्यर्थविशेषणत्वम् तथा चेदं विशेषणमतिव्याप्तिवारकं न भवतीति । __ व्यर्थविशेषणतां सिद्धान्तयति-परामर्शेति परामर्शस्य लिङ्गापरामर्शस्य यः प्रतिबन्धः "पदार्थस्तस्मादन्योपाध्यादिद्वाराऽनपेक्षत्वे सति सार्वत्रिकी याऽनुमितिस्तत्प्रतिबन्धकं यज्ज्ञानम् तस्य यो विषयस्तद्वत्त्वं हेत्वाभासत्त्वम् । तथा च हेत्वाभासानां मध्ये कस्यचिद्वाधेऽनुमिति प्रति प्रतिबन्धकं कस्यचिद् व्यभिचारादेाप्तिज्ञानं प्रति प्रतिबन्धकत्वम् । लिङ्गपरामर्श प्रति तु हेत्वाभासानां मध्ये कस्यचित् प्रतिबन्धकत्वं नास्ति [इति] यदुच्यते तहि व्यभिचारज्ञानानन्तरं परामर्शः कुतो न जायते इति चेत्, न । तत्र परामर्शस्य विशेषणं यद् व्याप्तिज्ञानं तदभावादेव वह्निव्याप्यधूमवानयमिति विशिष्टज्ञानं नोदेति । ननु परामर्श प्रति व्यभिचारज्ञानं प्रतिबन्धकम्, प्रतिबन्धकं च व्याप्तिज्ञानं प्रत्येव, व्यभिचारज्ञानाभावविशिष्टे हेतौ साध्यसामानाधिकरणस्यैव व्याप्तित्वात्, तथा च यदा १. A omits नास्ति. २. B चान्यत्रस्य.. ३. A omits कृतम्. ४. B यथा. ५. B पदार्थोपाध्यादि तस्मादन्यो तहि द्वारा.. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306