Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 291
________________ २५० तर्कतरङ्गिणी सर्वनिग्रहस्थानानामधिकरणं भवतीति । समयबन्ध' इति यद्येतादृशः समयबन्धः कृतो भवति, निग्रहस्थानं परित्याज्यमिति तदा निग्रहस्थानता नान्यत्रेति विशेषः । कण्टको(कमु)द्धरति-तथा च वादिना प्रथम परपक्षे दूषणं देयम् पश्चाद् स्वमतस्य स्थापनं कर्तव्यमिति । अन्यथेति शास्त्रादौ विद्यमाने प्रथमत एव स्वपक्षस्थापनं कर्तुं न शक्यत इति कण्टकोद्धारं कृत्वा एव स्वपक्षस्थापनं कर्तव्यम् । [३३] वितण्डा । वितण्डालक्षणमाह-स्वपक्षेति विजिगीषु कथेत्यपीति अन्यथेति यदि वितण्डालक्षणे विजिगीषु कथेति पदं न दीयते तदा तत्त्वबुभुत्सायां यदि स्वपक्षस्थापनाहीनस्यापि वैतण्डिकत्वं न भवतीति न तत्रातिव्याप्तिः । अत उक्तं विजिगीषु कथेति पदम् । एतदेव विशदयति-तद्विचारणीयमिति । यदि चेति - यदि वादेऽपि स्वपक्षस्तेषां स्थापनाहीनत्वं न स्वीक्रियते किन्तु तत्त्वविचारमात्रमेव तदा न तत्रातिव्याप्तिरिति न तत्पदं देयमित्यर्थः । अत्र चेति-वितण्डावादिनो परपक्षदूषणमेव प्रयच्छन्ति । परं स्वपक्षस्तेषां स्थाप्यो नास्ति- इति न द्वैतमिति भावः । प्रतिवादिनेति यद्यपि वितण्डावादिनाऽपि स्वपक्षसाधकानुमानं क्रियते इत्याशङ्कार्थः । दूषयति विप्रतिपत्तीति वितण्डावादिना विप्रतिपत्तिविषयीभूतो योऽन्यतरपदार्थस्तदनुमानं वितण्डावादिनो नास्ति । ततः स्वपक्षस्थापनानुमानत्वं तस्य नास्तीति भावः । [३४] कथा । कथेतीति कथा तु वादजल्पवितण्डारूपा त्रिविधा भवतीति सामान्यम् तथा च मूलकारेण कथासामान्यलक्षणं कृत्तम् यथा नानेति । शङ्कते-नन्विति तथा' च यत्र बहूनां विचारः, तत्र कथात्वं नास्ति । किन्तु यत्र द्वयोरेव कथाप्रसङ्गस्तदेव एतल्लक्षणलक्ष्यम् । तत्रापि लक्षणगमनेनातिव्याप्तिरिति भावः । साधनेति तथा च वादिनैव स्वपक्षसाधनस्य योऽनुवादः क्रियते तत्रातिव्याप्तिः । तथा च यत्रैकेन स्वपक्षासाधनं कृतम्, तत्रापरेण तस्यैवानुवादः कृतस्तत्र नानावक्तृकेत्यादिलक्षणं तिष्ठति । अनुवादस्य हि कथात्वाभावादलक्ष्यत्वमित्यतिव्याप्तिः । अव्याप्तिश्चेति तथा च यत्र कथायां प्रारब्धायामेकेन स्वपक्षस्थापनमारब्धम्, तदा द्वितीयेनाप्रतिभया किञ्चिन्नोक्तं तत्कथायामव्याप्तिः । एकेनैव वक्त्रा प्रतिपाद्यत्वात् द्वितीयेन च किमपि नोक्तमिति । असम्भवश्चेति-तथा चैकेन पूर्वपक्षः कृतः, उत्तरं चापरेण दत्तम्, तदोभयनानावतृकत्वं १. It is समयसम्बन्ध in both A and B. २. B शेषः. ३. Bomits इति. ४. B omits तथा च. ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306