Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad
________________
२४८
तर्कतरङ्गिणी वा विषयो वादास्पदीभूतः-तत्र स्वस्य यदज्ञानं तदाविष्करोति, तदाऽज्ञानं नाम निग्रहस्थानम् । एतदेव प्रकटयति-वादिमध्यस्थाभ्यामिति । तथा च कदाचिद्वादिनोक्तं तन्निर्वचनं मध्यस्थेनाप्युक्तं तदाऽनेनोच्यते मयाऽयमर्थो न बुद्ध इत्युक्ते वादिनोऽज्ञानरूपं निग्रहस्थानं पततीत्यर्थः । (१५) अप्रतिभा ।
अप्रतिभा स्पष्टार्थम् । (१६) विक्षेपः ।
विक्षेपं लक्षयति-कार्येति कार्यव्यासङ्गवशात् कदाचिदपच्छेदे कृते-यथा वादे प्रारब्धे ममामुकं कार्यमस्ति, स्वासामर्थ्यज्ञानत्वाद्त्यागे विक्षेपो भवतीत्यर्थः । (१७) मतानुज्ञा
मतानुज्ञा स्पष्टा । (१८) पर्यनुयोज्यम् ।
पर्यनुयोज्योपक्षणमाह-निग्रह इति एकवारं निग्रहस्थानं प्राप्तम्, पुनरपि निग्रहस्थानप्राप्ति: पर्यनुयोज्योपक्षेपणं नाम निग्रहस्थानं भवतीत्यर्थः ।
[इति निग्रहस्थानसप्तकम् ।] (१९) एतत्सप्तकस्योद्भावनं वादेऽयुक्तम् ।
एतदिति यद्यप्येतत्सप्तकं वादे सम्भवति तथाप्येतदुद्भावनं न कर्तव्यमिति । तत्त्वबुभुत्सायां निग्रहस्थानोद्भावनं न दोषाधायकमित्यर्थः ।
शङ्कते-नन्विति तथा च वादेऽपि तदुभयोः [i.e. प्रतिज्ञान्तरहेत्वन्तरयोः] उद्भावनमवश्यं कर्तव्यम् । अत्र हेतुमाह-तदनुद्भावनेति तथा च यदा हेतोविशेषणता 'न दीयते तदा साध्यान्तरस्य सिद्धिरेव न स्यात् । यथा-शब्दो नित्यः, प्रत्यक्षत्वादिति वादिना यदि हेत्वन्तररूपनिग्रहस्थानोद्भावनं न क्रियते तदाऽनित्यरूपं यत्साध्यं तस्य सिद्धिरेव न स्यात् । यथाश्रुते हेतोर्व्यभिचारित्वात् । ततो हेत्वन्तररूपं यन्निग्रहस्थानं तदुद्भावनीयमेव । तथा च वादे हेत्वन्तररूपनिग्रहस्थानोद्भावनं युक्तमेवेत्याशङ्कार्थः ।
समाधत्ते-योति यत्र च विशेषः- विशिष्ट एव हेतुः कृतस्तत्र, तथा च यथाश्रुतप्रत्यक्षत्वादिति १. A न भवतीत्यर्थः । २. B omits न.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306