Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 290
________________ तर्कतरङ्गिणी २४९ रूपं साध्यं साधनमभिप्रेतं न भवति । किन्तु विशिष्टमेव जातिमत्त्वविशिष्टं तदेवभिमतम् । तदिति हेत्वन्तरं नाम निग्रहस्थानम् । तत्स्थलाभिप्रायेणैव वादेन भवतीत्युक्तं प्रसङ्गाभासेति तथा च यदि वादे मतानुज्ञोद्भाव्यते 'तदा तत्त्वव्याघातो भवति । तथा च समीचीनप्रसङ्गाभावात् । व्यभिचाराभावात् तत्त्वज्ञानमेव न स्यात् । यदि तत्त्वज्ञानमेव न भवति तदा व्यभिचारः किमर्थं कर्तव्यः इत्येषोऽप्युद्भाव्य एवेत्याशङ्कार्थः । तस्या इति - मतानुज्ञायाः प्रसङ्गत्वमेव । यदि वादिना प्रतिवादिनो दूषणं दत्तम्, तदा प्रतिवादिना वादिनि दूषणं देयमिति, तदा विचारः कर्तव्य इति । तत्र विचार एव कथं-- विचाराभासत्वमित्यर्थः । मध्यस्थस्येति तत्त्वबुभुत्सुकथायां मध्यस्थ एव नास्तीति न पर्यनुयोज्योपक्षेपणमुद्भाव्यम् । प्रतिज्ञाविरोधमुद्भावयति - एकवाक्यांशयोरिति 'अयं च वादेऽप्युद्भाव्य एव तत्त्वविरोधित्वादिति भावः । अथवा हेतुद्भाव्यं निग्रहस्थानसप्तकं दर्शयति- अप्राप्तिकालेति यथा धूमात्पर्वतो वह्निमानित्यत्र निराकाङ्क्षता धूमादित्यत्र वह्निमत्त्वे आकाङ्क्षा नास्तीति निराकाङ्क्षत्वादप्राप्तकालता । शेषं सुगमम् । एतत्सप्तकं वादे उद्भाव्यमपि न कथा निवर्तनक्षमं भवति । तथा चैतस्मिन् सप्तके उद्भावितेऽपि कथायाः निर्वृत्तिर्न जायते इति । 1 जल्पे एव निग्रहस्थानान्येतानि इति ज्ञेयम् । यद्यपीति । अवयवान्तरेति । तथा चोदाहरणन्यूनतायां न कथाविच्छेद इति जल्पनिग्रहस्थाने कथाविच्छेदक एव वादे तु कथाविच्छेद इति ज्ञेयम् । निरनुयोज्यानुयोगं लक्षयति - तदूषणेति यथा वादिना प्रतिवादिनं प्रति दूषणं दत्तं तदा तदूषणोपरि प्रतिवाद्युक्तदूषणोपरि वादिना यदूषणं दत्तं तदा निग्रहस्थानं प्रतिवादीनां निरनुयोज्यानुयोगो भवति । अस्येति निग्रहस्थानानामियं परिगणना नाममात्रमेव । न च वादे एषामुपयोगः । किन्तु जल्पे एव तेषामुपयोग इति कारणात् मूलकारेण सर्वाणि निग्रहस्थानानि न दर्शितानीति भावः । [ ३२ ] जल्पः । अथ जल्पलक्षणे उभयसाधनवतीति यदि विजिगीषापदं न दीयते तदा तत्त्वबुभुत्सावादेऽतिव्याप्ति र्भवति । ततो विजिगीषु पददानम् । उभयसाधनवतीति पदं वितण्डायामतिव्याप्तिवारणार्थम् । वितण्डायाः परपक्षदूषणमात्रे तात्पर्यादुभयसाधनवत्त्वं नास्ति । तथा च जल्पः १. B omits तदा. २. B अवयवादि च (?). तर्क. - ३२ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306