Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 281
________________ तर्कतरङ्गिणी तज्जनकत्वम् । यज्ज्ञानं उदाहरणजन्यज्ञानम् । व्याप्तिज्ञानं यथा-यो यो धूमवान् सः वह्निमानितिरूपं तज्जनकं यद्वाक्यं तत्त्वे सति न्यायावयत्वमुदाहरणत्वम् । २४० (५) उपनयः । निगमनैकदेशे इति वह्निव्याप्यधूमवत्त्वात् वह्निमानित्यस्यैकदेशे वह्निमानयमितिरूपेऽतिव्याप्तिः । तस्यापि पक्षे उपसंहारवचनत्वादिति भावः । समाधत्ते-न्यायैकदेशेति न्यायस्य पञ्चावयवरूपस्यैकदेशो वह्निव्याप्यधूमवत्त्वात् वह्निमानितिरूपस्तेन जन्या या पक्षधर्मजिज्ञासा -यथा वह्निव्याप्यधूमवानयमितिरूपा, तस्य निर्वर्तकं यद्वाक्यं यथा वह्निव्याप्यधूमवत्त्वाद् वह्निमत्त्वरूपम् । इदमेव निगमनलक्षणं निवर्तकन्तम् । तत्रैकदेशेनिगमनैकदेशेऽतिव्याप्तिवारणार्थम् । वाक्यपदं च वन्यादिरूपेऽतिव्याप्तिवारणार्थम् । (६) निगमनम् । एतच्चतुष्टयेति प्रतिज्ञादिचतुष्टयावयवान्यत्वे सति अवयवत्वमित्यर्थः । (७) अवयवपदस्यार्थनिरूपणम् । अवयवत्वमिति । द्रव्यसमवायिकारणत्वमवयवत्वमित्यवयवलक्षणं प्रकृतेऽनुपन्नम् । शब्दस्य किञ्चित्प्रतिसमवायिकारणत्वाभावादित्यत आह- औपचारिकमिति पारिभाषिकमेवा-वयवत्वमत्र । तेन नैयायिकपरिभाषेयमिति भावः । यथा वह्निमान् धूमादिति द्वाभ्यामवयवाभ्यां मिलित्वा धूमज्ञानव्याप्यो वह्निरिति शाब्दबोधो जायते । धूमादिति पञ्चमीज्ञानज्ञाप्यत्वे लक्षणा । 'अन्यथा पञ्चम्या शक्तिसम्बन्धेन हेतुत्वस्यैव बोधजननादिदंत्वसम्भवि । यथा धूमादित्यत्र धूमपदेन धूम उपस्थापितः । पञ्चमीविभक्त्या च हेतुत्वमुपस्थाप्यते । हेतौ पञ्चमीत्यनुशासनात् । तदनन्तरं धूमेन समं हेतुत्वान्वयो भवति । यथा धूमनिरूपितहेतुत्वमिति । पुनरेतस्य हेत्वर्थस्य प्रतिज्ञार्थेन वह्नि सममन्वयो भवति । तथा च धूमहेतुको वह्निरित्यर्थो प्राप्यते । स चानुपपन्नः । वह्नौ धूमहेतुकत्वं धूमजन्यत्वं नास्तीति मुख्यार्थबाधः । इति लक्षणा आवश्यकी । तथा च पञ्चमीपदेन लक्षणया धूमपदेन धूम एवोपस्थापितः । पञ्चमी पदेन ज्ञानज्ञाप्यत्वं लक्षणयोपस्थापितम्, तदनन्तरं धूमस्य ज्ञानज्ञाप्यत्वेन सममन्वयो भवति । यथा धूमज्ञानज्ञाप्य इति हेत्वर्थो जातः । तदनन्तरं प्रतिज्ञार्थेन वह्निना समं हेत्वर्थस्यान्वयो भवति । यथा धूमज्ञानज्ञाप्यो वह्निरिति प्रतिज्ञार्थे हेत्वर्थान्वय इति । केचित्तु वह्निज्ञानं धूमज्ञानजन्यमिति शाब्दबोधं वदन्ति । वह्निपदे वह्निज्ञाने लक्षणां वदन्ति । धूमपढ़े ज्ञानं जन्यते पञ्चमीपदस्य हेतुत्वमेवार्थ इति । तथा च धूमज्ञानहेतुः किं वह्निज्ञानमिति शाब्दबोधं १. B त्वन्यथा. २. B omits भवति. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306