Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 285
________________ २४४ तर्कतरङ्गिणी चक्रकेति प्रथमतः समाप्तिमङ्गलयोः कार्यकारणभावः कल्प्यते, तदा व्यभिचारात्तत्र कार्यकारणभावेऽनुपपत्ति भवति । तद्वारणार्थं जन्मान्तरीयं मङ्गलं कल्प्यते, तदनन्तरं तत्कल्पने व्यभिचाराभावाभावज्ञानं जायते । तदा ज्ञानेन च कार्यकारणभावज्ञानं भवति, तदनन्तरं व्यभिचारात् कार्यकारणभावज्ञानानुपपत्तिरेव । तदनन्तरं पुनर्जन्मान्तरीयमङ्गलं कल्पनीयमिति चक्रकम् । प्रथमे तृतीयापेक्षा, तृतीयस्य द्वितीयपेक्षा । अनवस्थायाः अनिष्टप्रसञ्जकत्वं बीजाकुरादौ स्पष्टम् । एतदन्येति एतच्चतुष्टयान्यस्य बाधितोऽर्थो यस्य स तर्के हि बाधित एवार्थः । यथा बाधितोऽर्थो धूमाभावरूपः स धूमवति पर्वते प्रसज्यते इति तर्कः । प्रमाणिका इति प्रमाणसिद्धे इत्यर्थः । एककोटिविषयत्वादिति एतद् ग्रन्थकारमते तर्क: भ्रमेऽन्तर्भवति । यद् यत्र नास्ति, स तत्रापाद्यतेति भ्रम एव । यथा शुक्तौ रजत्वमापद्यते, तथा च धूमवान् धूमाभावः आपाद्यते इति भ्रमः । संशयत्वे तु कोटिद्वयोपस्थितिरपेक्ष्यते, अत्र त्वेककोटिरस्तीति मूलार्थः । [इति तर्कविचारः ।] [३१] वादः __ दूषयति-तन्नेति मात्रेति 'प्रकृतेति । मात्रपदव्यवच्छेद्याभावादित्यर्थः । यथैकत्र द्वयं न सम्भवति । यत्र तत्त्वबुभुत्सा तत्र विजिगीषा नास्ति, यत्र च विजिगीषा तत्र 'तत्त्वबुभुत्सा नास्तीति। वादकथायामिति - तत्त्वबुभुत्सारूपे वादे सभ्यस्यापेक्षाभावात् । स हीति - वादे तत्त्वजिज्ञासारूपे सभ्यो मध्यस्थो वीतराग एव भवति । तेन यत्तत्त्वनिर्णयरूपं कार्यं कर्तव्यं तच्च ताभ्यां वादिभ्यामेव वीतरागत्वात् क्रियते इति तत्र सभ्यापेक्षा नास्ति । तथा च मात्रपदं पूर्वलक्षणे व्यर्थमिति भावः । अनुविधेय इति यत्र च लाभार्थं राजादिर्मध्यस्थः क्रियते, सोऽपि वादिकथकयोः तत्त्वबुभुत्सारूपवादिकथकयोरनपेक्षित एव । तथा च वादे राजापि मध्यस्थो न कर्तव्य एवेति भाव। 'तत्संवादेनेति राजा यदि तत्र दैववशादागतस्दा तत्संवादेन वादिभ्यामुक्तेऽर्थों (र्थे !) राज्ञाऽप्यङ्गीकृते सुतरां तनिर्णयो भवतीत्यर्थः । (१) वादे निग्रहस्थानयोग्यताविचारः । ___ अत्र शङ्कते नन्विति तथा च निग्रहस्थानान्येभ्योऽष्टभ्योऽधिकानि भवन्ति, अन्यथा वादेऽष्टाधिकेन निग्रहस्थानप्रयोगाणां निरर्थकता स्यात् । १. Following Govardhana Gunaratna does not discuss निर्णय. २. This प्रतीक is not found in त.भा.प्र. ३. Pl. see page no. 243, footnote no. 8 ४. B omits च. ५. B omits तत्त्व. ६. B तत्संपादेनेति. ७. A omits अत्र. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306