Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad
________________
२४२
तर्कतरङ्गिणी साध्यसाधकत्वमित्यर्थः
इदमिति - इदं विपर्ययपर्ययवसानप्रत्यक्षं स्थलेऽस्तु । अत्र यदि घटः स्यात्तदा भूतलमिवादृश्यत् इत्यत्र विपर्ययो भवति घटाभावाभावरूपो घटः । तस्य पर्यवसानं स्थितं रूपम्, तेन विषयं साध्यते ।
अयमर्थः घटाभावाभावस्थित्याऽनिष्टप्रसञ्जनं सम्भवति। अनिष्टो भवति घटयभावः, तस्य प्रसञ्जनमपादानम् । घट्श्चेत्स्यात् तदोपलभ्येत इति । अन्यथेति यदि सर्वसाधारणविपर्ययपर्यवसानं साध्यं साधयतीति प्रोच्यते, तदाऽनुमानादिस्थले तर्को विफलो भवति । साध्यं चानुमानेनैव सिध्यति किं तर्केणेति । ततः तर्कस्य यदि विपर्ययपर्यवसानं तत्प्रत्यक्षस्थल एव साध्यं साधयतीति नानुमानादिस्थले । तथा च तर्कः प्रत्यक्षज्ञानरूपो भवति । तस्य तर्कस्य वैफल्यम् । अनुमानादिवाक्यार्थस्य वयादेः सिद्धेः । तर्कस्य च प्रयोजनं विपर्यपर्यवसानमेव । तथा चानुमानस्थले साध्यं न साधयति । किन्तु प्रत्यक्षस्थले एव साध्यं विषयं साधयति ।
ननु तच॑नुमानस्थले तर्कस्य कुत्रोपयोग इत्यत आह-नन्वनुमानस्थलेत्विति तथा च विपर्ययपर्यवसानेनाप्रयोजनकत्वाशङ्कानिराकरणं क्रियते । तदेव वस्तुगत्याऽनुमानम् । अयमत्र प्रघट्टार्थ:-स प्रत्यक्षस्थले तु तर्केण विषयो घटाद्यभावस्य साध्यते । अनुमानस्थले चाप्रयोजकत्वशङ्का निराक्रियते । विषयस्तु वह्यादिरूपोऽनुमानेनैव साध्यते-इति विशेषो ज्ञेयः ।
नन्विति लाघवमप्यनुकूलतर्को गीयते । यथेश्वरस्यैकत्वे नित्यज्ञानेऽनुकूलतर्को लाघवमेव यथेश्वरस्यानेकत्वं कल्पनीयमेकत्वं वा ? लाघवादेकत्वमेव । लाघवं हि कल्पनालघीयसी । यत्रानेकत्वज्ञानं [तत्र] चैकत्वज्ञानं प्रतियोगित्वेनावश्यकमित्येकत्वमेव कल्प्यते-इति लाघवमपि तर्कोऽस्ति । तत्रातिव्याप्तिः ।
हेतुमाह-अनिष्टप्रसङ्गाभावादिति यथा निर्वह्निः स्यात् तदा निधूमः स्यादित्यनिष्टस्य धूमाभावस्य प्रसञ्जनम् । तथा प्रकृतेऽनिष्टापादानं नास्ति । यथा यदीश्वरस्यानेकत्वं स्यात्, तदाऽमुकं स्यादित्यनिष्टापादानं नास्तीत्यव्याप्तिः । आदिशब्दात्कार्यकारणभावादिष्वव्याप्तिः यथा पृथिवीत्वजातौ साध्यमानायामनुकूलतर्कः कार्यकारणभाव एव, यथा गन्धत्वेन पृथिवीत्वेन च कार्यकारणभावः गन्धसमवायिकारणतावच्छेदकत्वेन पृथिवीत्वं जातिः सिध्यति तेषामिति लाघवादीनामपि लक्षणं न क्रियते, किन्तु विषयपरिशोधकव्याप्तिग्राहकतर्कयोरेव, लक्ष्यत्वादिति भावः । एतदेवाह-अनुमानस्थले चेति । धूमो यदीति - अयं व्याप्तिग्राहको यथा-'धूमो यदि वह्निव्यभिचारी, वयभावेऽपि धूमो भवेत्तदा वह्निजन्यो न स्यात् घटदिवदिति' । यथाऽत्र विषयो भवति व्याप्तिः । तस्याः शोधको भवति १. B omits भवति. २. A omits the reading between तदेव.......निराक्रियते ३. B omits न.
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306