Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad
________________
तर्कतरङ्गिणी
२४३ प्रतिबन्धकाभावः', व्याप्तिज्ञानं भवति प्रतिबन्धकम् तदभावस्तर्केण क्रियते । 'यदेशस्तर्क उत्पन्नस्तदा व्यभिचारज्ञानं नोत्पद्यते-इति व्याप्तिग्राहक एव । अयं चानिष्टप्रसञ्जको भवति । यथाऽत्रानिष्टो भवति वह्निजन्यत्वाभावः । सः धूमेऽऽपाद्यते । इदमेवानिष्टप्रसञ्जनम् ।
_ विषयशोधको मूलेति - ५अत्र घटश्चेत्स्यात् तदा भूतलमिवादृक्ष्यदिति । यदि च न दृश्यते तस्मानास्तीत्यत्रविषयो भवति घटाभावः । तस्यायं तर्कः परिशोधको भवति । व्याप्तिग्राहकतर्केऽत्र विशेषसामग्रीमाह-व्याप्येति अत्र व्याप्तिग्राहके तर्के व्याप्याहार्यः कारणम्, व्याप्यस्याहार्यो योऽऽरोपः सः कारणम् । व्याप्यो भवति वढ्यभावस्य धूमाभावः, तस्याहार्यारोपः । आहार्यत्वं हीच्छाजन्यज्ञानत्वम् । अनाहार्यारोपो न सम्भवति, तत्र धूमस्य विद्यमानत्वात् । अनाहार्यरूपस्तु तत्रैव सम्भवति यत्र वस्तुगत्या धूमाभावस्तिष्ठति । तत्र धूमाभावज्ञानम् । अथवा शुक्तौ रजतारोपोऽनहार्यारोप इति ।
नन्वत्र कथमाहार्यारोपोऽऽपाद्यापादकयोाप्यत्याभावादित्यत आह-व्याप्तिज्ञानेति तथा च व्याप्तिज्ञानं पक्षधर्मताज्ञानं चात्रापि व्याप्तिग्राहकतर्केऽऽपाद्यापादकयोर्व्याप्ति विद्यते एव । कथम् ? यथाऽऽपादको भवति वयभावः । आपाधो भवति धूमाभावः । अनयो वयभावधूमाभावयोः परस्परं व्याप्तिस्तिष्ठत्येव । तदभावे तु दोषमाह-व्याप्तिज्ञानं विनेति तथा चापाद्यापदाकयोाप्यव्यापकयोः व्याप्ति ज्ञानं विना आहार्यरूपो आपादस्यारोपस्तं विना-आहार्यारोपं विना आहार्यारोपरूपो यस्तर्कः सः नोदेति । तथा च साध्याभावसाधनाभावयोर्व्याप्तिसत्त्वादाहार्यसाध्याभावरूपेणाहार्यसाधनाभावारोपः क्रियते, यथा धूमज्ञाने विद्यमाने धूमाभावज्ञानस्याहार्यत्वात् 'निर्वह्निः स्यात्, निधूमः स्यात्,-इति व्याप्तिग्राहकस्तर्कः इति सिद्धम्।
आत्माश्रयादिदोष चतुष्टयस्य तर्केऽन्तर्भाव । संप्रदायेति आत्माश्रयादीनामपि तर्केऽन्तर्भावः । कथमिति चेत् तर्कस्य यथाऽनिष्टप्रसञ्जकत्वं तथाऽऽत्माश्रयादीनामपि । एतदेवाहघटो यदीति इत्यनिष्टप्रसञ्जनं वादिनः घटे घटश्रितप्रमाऽनिष्टा, तस्या प्रसञ्जकमिति भावः । एवमन्योन्याश्रयादावपीति यथा समाप्ति प्रति मङ्गलस्य कारणत्वे कल्प्यमाने व्यभिचारवारणार्थं नास्तिककृतग्रन्थेषु जन्मान्तरीयमङ्गलस्य कल्पनम्, क्लृप्ते च जन्मान्तरीयमङ्गले कार्यकारणभावज्ञानम् ज्ञाते च कार्यकारणभावे जन्मान्तरीयमङ्गलं व्यभिचारवारणार्थं कल्पनीयमित्यन्योन्याश्रयस्य तर्कत्वेऽनिष्टप्रसज्जनम् । यथा न हि जन्मान्तरीयमङ्गलं कृतं भवेत्तदा कदाचित्संस्कारसत्त्वेन स्मरणमपि भवेदिति । १. Both A and B read भावः क्रियते; but क्रियते seems to be redundant here. २. B तदे. ३. B omits अत्र. ४. It is विषयपरिशोधकस्तु मूल in त.भा.प्र. ५. B अतः. ६. B -हार्य आपाद्या.. ७. B तदभावेति दो.. ८. A adds here साध्याभावसाधनाभावयोर्व्याप्तिस्त्वादाहार्यसाध्याभावरू पेणाहार्यसाधनाभावारोपः क्रियते यथा धूमज्ञाने मात्रे and omits the reading between निर्वह्निः.....प्रकृतेति
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306