Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 221
________________ १८० तर्कतरङ्गिणी द्रव्याण्येव नव इत्यर्थः । ततो द्रव्यातिरिक्तेन समं योग:सम्बन्धः एवकारेण व्यवच्छिद्यते । तेन द्रव्यातिरिक्तो योऽन्धकारः पदार्थः तेन समं सम्बन्धः व्यवच्छेदः । ___ अन्यथेति । यदि विशेषणसङ्गात् एवकारो विधीयते,-विशेषणं च नवरूपं तत्सङ्गतो यद्येवकारो विधीयते-यथा द्रव्याणि नवैवेत्यर्थो बोध्यते तथा 'चायोगव्यवच्छेदार्थो बोध्यते । अयोगश्च द्रव्यत्वाश्रयेण समं योऽयोग सम्बन्धाभावस्तस्य यो व्यवच्छेदः तत्प्रतीयते । यथा द्रव्यत्वाश्रये सर्वत्र द्रव्यत्वायोगव्यवच्छेदो वर्तते द्रव्यत्वायोगगुणादौ तस्य व्यवच्छेदो द्रव्यत्वाश्रये । व्यवच्छेदो नाम अत्यन्ताभावः । तेन सुवर्णं नवद्रव्यातिरिक्तं द्रव्यं न भवति । नवातिरिक्त पदार्थ द्रव्यत्वव्यवच्छेद एव कारेण बोध्यते इत्यर्थः । तथा च विशेष्यसङ्गतो विशेषणसङ्गतो वा, उभयथाऽप्येवकारार्थः सम्भवतीति भावः। तथा चात्रायं प्रघट्ट:-विशेष्यसङ्गत एवकारोऽन्ययोग्यव्यवच्छेदार्थको भवति । यथा पार्थ एव धनुर्धरः इत्यत्र विशेष्यं भवति पार्थः । तत्सङ्गतेन एवकारेणान्ययोगव्यवच्छेदो बोध्यते । यथा पार्थादन्यो धनुर्धरो नास्ति । यथा पार्थातिरिक्तेन समं यो धनुर्धरत्वस्य सम्बन्धः, तस्य व्यवच्छेद एवकारेण बोध्यते पार्थादन्यस्मिन् पदार्थे धनुर्धरत्वं नास्ति । धनुर्धरत्वस्य पार्थादन्यस्मिन्नत्यन्ताभावो बोध्यते । अयं विशेषसङ्गत एवकारार्थः । विशेषसङ्गत एवकारस्तु पृथिवीव्यामेव गन्धः । अत्र पृथिव्या सप्तम्यन्तत्वाद विशेष्य(षण) त्वम्, प्रथमान्तस्यैव विशेष्यत्वात् । विशेषणसङ्गत एवकारोऽयोगव्यवच्छेदार्थको भवति तथा च पृथिव्यां गन्धस्य योऽयोगः पृथिव्याऽन्यजलादौ प्रसिद्धः, तद्व्यवच्छेदःतस्यात्यन्ताभाव तथा च गन्धात्यन्ताभावाभावः पृथिव्यामेव वर्तते इति विशेषणसङ्गत एवकारो बोध्यते ।। क्रियासङ्गत एवकारस्तु-अत्यन्तायोगव्यवच्छेदार्थकः । यथा नीलं सरोजं भवत्येव । अत्र क्रियासङ्गतएवकारोऽत्यन्तायोगव्यवच्छेदकं बोधयति । यथा सरोजेन सममत्यन्तानीलायोगः । तस्य व्यवच्छेदं बोधयति-यथा सरोजे नीलायोगाभाव 'अत्रार्थादयोगव्यवच्छेदार्थ-एवकार इति । यथा विशेषण सङ्गत एवकारेऽयोगव्यवच्छेदार्थः तथाऽयमपीति सङ्गत एवकारेऽयोगव्यवच्छेदार्थः तथाऽयमपीति । तथा च एवकारस्यार्थद्वयमेव । यथा एकोऽन्ययोगाव्यवच्छेदः, एकोऽयोगव्यवच्छेदः । क्रियासङ्गातस्य द्वितीये एवान्तर्भाव इति । अत्यन्तायोगव्यवच्छेदस्तु अयोगव्यवच्छेदापेक्षयाऽतिरिक्तो न भवति । वस्तुतस्तु एवकारस्यात्यन्ताभावोऽन्योन्याभावो वाऽर्थः । लाघवादन्योन्याभाव एवार्थः । 'पार्थ एव धनुर्धर' इत्यत्र पार्थपदेन लक्षणया पार्थान्यपदार्थो बोध्यते । एवकारेण च पार्थान्यस्य १. A तदा. २. B चायोग्यव्यव.. ३. B योऽयोग्यः. ४. B -सङ्गतस्त्वेवकारः पृथि.. ५. B नीलायोग्या.. ६. B तथा. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306