________________
१८०
तर्कतरङ्गिणी द्रव्याण्येव नव इत्यर्थः । ततो द्रव्यातिरिक्तेन समं योग:सम्बन्धः एवकारेण व्यवच्छिद्यते । तेन द्रव्यातिरिक्तो योऽन्धकारः पदार्थः तेन समं सम्बन्धः व्यवच्छेदः ।
___ अन्यथेति । यदि विशेषणसङ्गात् एवकारो विधीयते,-विशेषणं च नवरूपं तत्सङ्गतो यद्येवकारो विधीयते-यथा द्रव्याणि नवैवेत्यर्थो बोध्यते तथा 'चायोगव्यवच्छेदार्थो बोध्यते । अयोगश्च द्रव्यत्वाश्रयेण समं योऽयोग सम्बन्धाभावस्तस्य यो व्यवच्छेदः तत्प्रतीयते । यथा द्रव्यत्वाश्रये सर्वत्र द्रव्यत्वायोगव्यवच्छेदो वर्तते द्रव्यत्वायोगगुणादौ तस्य व्यवच्छेदो द्रव्यत्वाश्रये । व्यवच्छेदो नाम अत्यन्ताभावः । तेन सुवर्णं नवद्रव्यातिरिक्तं द्रव्यं न भवति । नवातिरिक्त पदार्थ द्रव्यत्वव्यवच्छेद एव कारेण बोध्यते इत्यर्थः । तथा च विशेष्यसङ्गतो विशेषणसङ्गतो वा, उभयथाऽप्येवकारार्थः सम्भवतीति भावः।
तथा चात्रायं प्रघट्ट:-विशेष्यसङ्गत एवकारोऽन्ययोग्यव्यवच्छेदार्थको भवति । यथा पार्थ एव धनुर्धरः इत्यत्र विशेष्यं भवति पार्थः । तत्सङ्गतेन एवकारेणान्ययोगव्यवच्छेदो बोध्यते । यथा पार्थादन्यो धनुर्धरो नास्ति । यथा पार्थातिरिक्तेन समं यो धनुर्धरत्वस्य सम्बन्धः, तस्य व्यवच्छेद एवकारेण बोध्यते पार्थादन्यस्मिन् पदार्थे धनुर्धरत्वं नास्ति । धनुर्धरत्वस्य पार्थादन्यस्मिन्नत्यन्ताभावो बोध्यते । अयं विशेषसङ्गत एवकारार्थः । विशेषसङ्गत एवकारस्तु पृथिवीव्यामेव गन्धः । अत्र पृथिव्या सप्तम्यन्तत्वाद विशेष्य(षण) त्वम्, प्रथमान्तस्यैव विशेष्यत्वात् । विशेषणसङ्गत एवकारोऽयोगव्यवच्छेदार्थको भवति तथा च पृथिव्यां गन्धस्य योऽयोगः पृथिव्याऽन्यजलादौ प्रसिद्धः, तद्व्यवच्छेदःतस्यात्यन्ताभाव तथा च गन्धात्यन्ताभावाभावः पृथिव्यामेव वर्तते इति विशेषणसङ्गत एवकारो बोध्यते ।।
क्रियासङ्गत एवकारस्तु-अत्यन्तायोगव्यवच्छेदार्थकः । यथा नीलं सरोजं भवत्येव । अत्र क्रियासङ्गतएवकारोऽत्यन्तायोगव्यवच्छेदकं बोधयति । यथा सरोजेन सममत्यन्तानीलायोगः । तस्य व्यवच्छेदं बोधयति-यथा सरोजे नीलायोगाभाव 'अत्रार्थादयोगव्यवच्छेदार्थ-एवकार इति । यथा विशेषण सङ्गत एवकारेऽयोगव्यवच्छेदार्थः तथाऽयमपीति सङ्गत एवकारेऽयोगव्यवच्छेदार्थः तथाऽयमपीति । तथा च एवकारस्यार्थद्वयमेव । यथा एकोऽन्ययोगाव्यवच्छेदः, एकोऽयोगव्यवच्छेदः । क्रियासङ्गातस्य द्वितीये एवान्तर्भाव इति । अत्यन्तायोगव्यवच्छेदस्तु अयोगव्यवच्छेदापेक्षयाऽतिरिक्तो न भवति ।
वस्तुतस्तु एवकारस्यात्यन्ताभावोऽन्योन्याभावो वाऽर्थः । लाघवादन्योन्याभाव एवार्थः । 'पार्थ एव धनुर्धर' इत्यत्र पार्थपदेन लक्षणया पार्थान्यपदार्थो बोध्यते । एवकारेण च पार्थान्यस्य १. A तदा. २. B चायोग्यव्यव.. ३. B योऽयोग्यः. ४. B -सङ्गतस्त्वेवकारः पृथि.. ५. B नीलायोग्या..
६. B तथा.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org