________________
तर्कतरङ्गिणी
१८१ व्यवच्छेदोऽन्योन्याभावो बोध्यते । तथा च पार्थप्रतियोगिकान्योन्याभाववान् धनुर्धर इति शब्दबोध:जायते । यद्यत्यन्ताभावस्तदा गौरवम् । यथा पार्थान्यथाव्यवच्छिन्नप्रतियोगिकात्यन्ताभावो वाच्यस्तथा चावच्छेदकावच्छेद्य प्रवेशेन गौरवमिति ।
सर्वत्र एवकारस्यार्थोऽन्योन्याभावोऽत्यन्ताभावो वेति नवीनाः । जीर्णमते त्वन्ययोगव्यवच्छेदन्त्ययोगव्यवच्छेदोऽयोगव्यवच्छेदो वेत्यर्थत्रयः एतत्कल्पने गौरवमेव दोषः । वस्तुतस्त्वन्ययोगव्यवच्छेदो वक्तुं न शक्यते । यथा पार्थ एव धनुर्धर पार्थान्यो यो पदार्थः प्रमेयत्वादिरूपः, तस्य यो योगस्तस्य व्यवच्छेदो धनुधरे नास्ति । धनुधरेऽपि प्रमेयत्वस्य सत्त्वात् । न च पार्थान्यपदार्थो व्यतिरेकीधर्मो ग्राह्य इति वाच्यम् । पार्थान्यस्य पदार्थस्य 'द्रव्यत्वव्यतिरेकित्वेनापि तद्योगव्यवच्छेदोऽपि धनुधर नास्ति । न च पार्थान्यपुरुषादौ धनुर्धरत्वयोगव्यवच्छेद इति वाच्यम् । पार्थान्यस्मिन्नपि पदार्थे केनचित्सम्बन्धेन यथैकज्ञानदिसम्बन्धेन यथा धनुर्धरत्व पुरुषाव(वि)ति समूहालम्बनात्मकम्तद्विषयता च धनुर्धरत्वे पार्थान्यस्मिन् पुरुषे तिष्ठतीति । तथा चानेन सम्बन्धेन पार्थादन्यस्मिन्नपि पदार्थेऽनेन धनुर्धरस्य सत्त्वादेवकारेण पार्थान्यस्मिन्पदार्थे धनुर्धरत्वस्यात्यन्ताभावो कथं बोधनीय इति । अपि च पार्थादन्यस्मिन्पदार्थे यद्येवकारेण धनुर्धरत्वात्यन्ताभावो बोध्यते तदा न धनुर्धरत्वेन रूपेण धनुर्धरत्वज्ञानमपेक्ष्यते । तथा च गौरवम् । तथा च एवकारस्यान्योन्याभावोऽत्यन्ताभावो वाऽर्थः । तेन पार्थ एव धनुर्धर इत्यत्र पार्थपदेन लक्षणया पार्थान्यपदार्थो बोधित:। तत्प्रतियोगिकोऽन्योन्याभावः स एवकारेण बोध्यते । पार्थान्यो घटसर्वः तत्त्प्रतियोगिको योऽन्योन्याभावः तद्वान् धनुर्धर एकस्य पार्थस्यान्योन्याभावो नास्ति अन्यस्य सर्वस्य विश्वस्यान्योन्याभावोऽस्तीत्येवर्थ इति दिक् ।
तथा च प्रकृते द्रव्यादौ नवातिरिक्तयोगव्यवच्छेदो बोध्यते । तथा च नवद्रव्यातिरिक्त प्रतियोगिकान्योन्याभावो द्रव्येषु एवकारेण बोध्यते तथा चात्यान्ताभावपक्षे नवातिरिक्तो यो पदार्थः गुणादि तदत्यन्ताभाववद् द्रव्यम् । अथान्योन्याभावपक्षे नवातिरिक्तो पदार्थः गुणः, तत्प्रतियोगिकान्योन्याभाववत्, द्रव्यम् द्रव्येषु नवातिरिक्तपदार्थस्य गुणादेरन्योन्याभावः तिष्ठत्येव इत्येवकारेणान्योन्याभावो बोधितः इति लीलावत्याम् । शिरोमणिव्याख्या तु शिरोमणिकारेण व्याख्यतम् (-ख्याता ?)।
तथा चान्धकारो द्रव्यत्वयोगव्यवच्छेदो बोधितः । यथा द्रव्येष्वन्धकारान्योन्याभावो बोधित इति अन्धकारस्य द्रव्यत्वसाधकमनुमानमप्रयोजकं वक्तव्यम् । अनुमानं च-'अन्धकारो द्रव्यम्, रूपादिमत्त्वात्, घटदिवद् अत्रानुकूलतर्काभावादप्रयोजकमिति । १. B द्रव्यादेः. २. B बोध्यते.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org