________________
१८२
तर्कतरङ्गिणी (१) पृथिवीनिरूपणे पाकजविचारः ।
पाकजा इति -यरूपीति । नैयायिकः पिठरपाकवादी भवति । पिठरं नाम अणुद्वयणुकादिः । तथा च नैयायिको वदति-अवयविन्यग्निपाको जायते । तेनावयवपाकप्रक्रमेणावयविरूपादिमुत्पाद्यते ।
अयमर्थः - प्रथमे क्षणे पार्थिवपरमाणुषु क्रिया अग्निसंयोगेन रूपादिकमुत्पाद्यते । पुनः द्वितीयक्षणेऽस्मदाद्यदृष्टवशात् आत्मपरमाणुसंयोगेन तेष्वेव परमाणुषु क्रिया जायते । तदनन्तरं क्रियावत्परमाणुभिः समं पूर्वदेशविभागः परमाणूनां तदनन्तरं तेषां परमाणूनां पूर्वदेशसंयोगनाशो जातः। तदनन्तरं परमाण्वन्तरेण समं क्रियावत्परमाणोः संयोगो जातः । तदनन्तरं 'द्वयणुकमुत्पन्नम् । तदनन्तरं द्वयुकेण परमाणुनिष्ठपाकजरूपादिना द्वयणुकनिष्ठं रूपदिकमुत्पद्यते । एवं व्यणुकनिष्ठरूपादिना त्रसरेणुनिष्ठं रूपादिकमुत्पद्यते इति नियमस्तु नैयायिकेन क्रियते । यतः कदाचित् परमाणुषु पाकः कदाचितवयविनि पाकः।
नियमवादिनः तु वैशेषिकाः । तैरुच्यते-परमाणुष्वेव पाकः। अवयवे(वि)षु च पाकजं रूपं नोत्पद्यते । अवयवरूपक्रमेणैवावयिषु रूपाद्युत्पद्यते । प्रथमतो हि पाकेनाग्निसंयोगेन परमाणुष्वेव रूपरसगंधस्पर्शाः उत्पद्यन्ते । तदनन्तरं परमाणुरूपादिप्रकारेणद्वयणुके रूपादिकमुत्पद्यते । वैशेषिकाणां मते घटे रूपरसस्पर्शा: पाकजाः कदापि नोत्पद्यन्ते, किन्त्ववयवरूपाद्यसमवायिकारणका एवावयविनि रूपरसगन्धस्पर्शाः उत्पद्यन्ते इति ।
पीलुपाकवादिनः वैशेषिकाः। पीलव:-परमाणुष्वेव पाक इति नियमवादिनः । नैयायिकाः चानियमवादिनः । यथा नैयायिकमते कदाचिद् घटदावपि रूपादय उत्पद्यन्ते, कदाचित् परमाणुष्वेव ।
तथा च तयोविवादे विप्रतिपत्तिरिदृशी - तथाहि, घटोऽग्निसंयोगासमवायिकारणरूपवान्, अग्निसंयोगासमवायिकारणरूपवत्त्वं नैयायिकेन स तदभावस्तु वैशेषिकेण । विस्तरो गुणप्रकरण पाकजप्रकियायां दर्शयिष्यते । इदमेवाह यद्यपीत्यादिना । उक्तार्थमेतत् । . (२) तेजोनिरूपणे सुवर्णविचारः ।।
पिण्डितमिति चतुर्विधमित्युपलक्षणम् । तदेव हि उपलक्षणमनुक्तस्यापि सौरादितेजसो बोधकम् । नोद्भूतरूपस्पर्शमिति यद्यपि सुवर्णं पिण्डितं भवति, तथापि तस्य रूपस्पर्शी नोद्भूतौ । यतः तेजोरूपं हि शुक्लं भवतीदंतु पीतरूपम् । स्पर्शस्तूष्णतेजस इति ज्ञेयम् । न गृह्यतेति सुवर्ण तूद्भूतरूपमुद्भूतस्पर्शम् । युक्तिमाह-यदि सुवर्णमुद्भूतरुपवन भवति सुवर्णस्याचाक्षुषत्वमेव स्यात् । महत्त्वसमानाधिकरणोद्भूत रूपवत् एव चाक्षुषत्वनियमात् । तथा च सुवर्णस्य चाक्षुषत्वान्यथानुपपत्त्या १. B व्यणुके पर. २. Following गोवर्धन, गुणरत्न does not mention आपः. ३. B त्वनुद्भूत.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org