________________
तर्कतरङ्गिणी
१८३ उद्भूतरूपं कल्पनीयमेव । न च तेजोरूपं सुवर्णविषयं कथं नोपलभ्यत इति वाच्यम् । तत्र यद्यपि उद्भूतं रूपं तिष्ठति तथापि बलवत्सजातीर्याभिभवेन तत्प्रत्यक्षं न जायते । बलवत्उत्कटं यत् सजातीयं रूपत्वं-सजात्या समानजातीयं पृथिवीरुपं तेनाभिभव:प्रतिबन्धः चाक्षुषज्ञानविषयः क्रियते इति सुवर्णे उद्भूतरूपाभावे सुवर्णस्य रूपचाक्षुषत्त्वं न स्यात् तनिष्ठसङ्ख्यादिकमपि न गृह्यत इति । सङ्ख्या तु प्रत्यक्षपदार्थस्यैव गृह्यते । अन्यथाऽऽकाशादिसङ्ख्यायाः अपि प्रत्यक्षता स्यात् । ततश्चसुवर्णमुद्भूतरूपं न भवत्येव । सजातीयाभिभवान्नोपलभ्यते इति सिद्धान्तः ।
नन्विति तथा च यदि सुवर्णरूपमुद्भूतरूपं तदन्यं (तदाऽन्ध)कारे सुवर्णरूप:प्रत्यक्षतापत्तिः। पार्थिवरूपेण त्वन्धकारे सुवर्णरूपप्रत्यक्षस्याभिभवः कर्तुं न शक्यते तदानीं पार्थिवारूपस्याप्रत्यक्षत्वात् । तेनाप्रत्यक्षेण पार्थिवरूपेण कथं प्रत्यक्षस्य सुवर्णस्योद्भूतरूपस्याभिभव:-इत्याशक्या न चेति - तथा च व्यञ्जकं स्वतेजोन्तरमुद्भूतरूपप्रत्यक्षं प्रत्यपेक्ष्यते इति तेजोन्तराभावान्नसुवर्णमुद्भूतरूपम् ।
प्रत्यक्षं निराकरोति-तेजोन्तरेति तथा च तेजस उद्भूतरूपं प्रत्यक्ष प्रति तेजोन्तरं न व्यञ्जकम्। उपाधि र्वोद्भूतरूपप्रत्यक्षं प्रत्येव तेजोन्तरमपेक्ष्यते । तथा सुवर्णरूपमप्यद्भूतरूपमेव । अन्यथा सुवर्णस्य चाक्षुषत्वं न स्यादित्युक्तमेवेत्याभासार्थः । बलवदिति - पार्थिवरूपेण बलवत्सजातीयेन सुवर्णरूपस्य शुक्लभास्वरस्याभिभवः । तत्प्रत्यक्ष(क्ष)ज्ञानप्रतिबन्धः कृतः। पार्थिवस्पर्शेन चोष्णस्पर्शस्याभिभव: कृतः । अभिभवे बलवत्त्वं प्रत्यक्षमेव । अन्यथा सुवर्णरूपमप्युद्भूतरूपत्वात् प्रत्यक्षमेव स्यादिति भावः। (३) वायुः ।
पृथिव्यामिति मूलम्-वायौ वाति सति योऽयमनुष्णाशीतस्पर्श उपलभ्यते स च विशेषगुणो भवति । एकेन्द्रियमात्रग्राह्यत्वात् । तस्य गुणित्वे सिद्धे गुणी वायुरेव, न पृथिवी । उद्भूतानुष्णाशीतस्पर्शवत्त्वेन पृथिव्याः प्रत्यक्षत्वनियमात् । यत्र हि पृथिव्यामुद्भूतानुष्णाशीतस्पर्शी घटदिस्थले तिष्ठति तत्र चोद्भूतरूपमपि तिष्ठतीति नियमः । तथा सत्ययमनुष्णाशीतस्पर्श उपलभ्यते तस्य गुणी पृथिवी स्यात् । तदोद्भूतरूपवत्त्वेन तस्यापि प्रत्यक्षत्वं स्यात् । ततोऽस्य स्पर्शाश्रयः पृथिवी न भवति । जलादावनुष्णाशीतस्पर्शो नास्त्येवेति परिशेषेण तदाश्रयो वायुः सिद्धः । नन्विति वायुरिति शेषः । समाधत्ते उद्भूतस्पर्शेति ।
-
१. B omits रूप and reads अचा.. २. B भवति । ३. Bomits the reading between प्रति........ व्यञ्जकं. ४. B omits सति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org