________________
१८४
॥ परमाणुवादः ॥
मूले क्रिययेति अस्मदाद्यदृष्टवदात्मसंयोगेनाभिघाताख्येन नोदनाख्येन वा परमाणुषु क्रिया जायते । तदनन्तरं तया क्रियया-कर्मणा परमाणोः पूर्वदेशविभागो जातः । तदनन्तरं तेन विभागेन पूर्वदेशसंयोगस्य नाशः कृतः । तदनन्तरं क्रियोत्पत्यपेक्षया चतुर्थक्षणे परमाण्वन्तरेण समं संयोगो जातः । तदनन्तरं पञ्चमक्षणे द्वयणुकोत्पत्तिर्जायते तदनन्तरमस्मदादयदृष्टवदात्मसंयोगेन द्वयणुके क्रियोत्पादिता । तया क्रियया पूर्वदेशविभागः कृतः । तदनन्तरं तेन विभागेन पूर्वदेशसंयोगनाशः कृतः। तदनन्तरं द्वयणुकान्तरेण सममेतद् द्वयणुकस्य संयोगो जातः । तदनन्तरं त्र्यणुकोत्पत्तिः । इत्येवं क्रमेणाग्रेऽपि ।
तर्कतरङ्गिणी
ननु पूर्वदेशविभागानन्तरं उत्तरदेशेन समं संयोग एव कथं नोत्पद्यते, किमर्थं पूर्वसंयोगनाशोऽपेक्ष्यत इति चेत्, न । पूर्वदेशसंयोगस्योत्तरदेशसंयोगं प्रति प्रतिबन्धकत्वात् । तथा च प्रतिबन्धके विद्यमाने कथमुत्तरदेशे संयोगरूपकार्योत्पत्तिरिति पूर्वदेशसंयोगनाशोऽपेक्ष्यत इति । क्रियानाशकस्त्वत्रोत्तरदेशसंयोग एव । अत एव प्राचीनमते चतुर्थक्षणे क्रियानाश इति । एवं चतुरणुकाद्युत्पत्तिरपि बोध्या । संयोगादीनामिति टीका, यदा चतुरणुकस्योत्पत्तिर्जायते तदा त्रसरेणवः समवायिकारणम्, तत्संयोगो भवत्यसमवायिकारणम् अस्मदाद्यदृष्टं भोगजनकीभूतं निमित्तकारणमित्यर्थः ।
स्वाश्रयेति मूलम् स्वशब्देन रूपादिकं कार्यगतम्, तस्य योऽऽश्रयस्तस्य यत्समवायि - कारणम्, तन्निष्ठाः ये रूपादयः तेभ्यः सकाशात् कार्यगता रूपादय उत्पद्यन्ते, यथा घटरूपं कपालरूपाज्जायते । एवं रसादयोऽपीत्यर्थः ।
अथ नाशक्रमो दृश्यते-इत्थमिति मूलम् । यथा रूपवद् द्रव्यमुत्पन्नम्, तस्यावयवे कालोत्तरे क्रिया जायते । अस्मदादिभोगजनकीभूतादृष्टसंयोगवदात्मसंयोगेन कार्यद्रव्ये घयदिसमवायिकारणे कपालादौ क्रिया जायते । तया क्रियया कपालस्य पूर्वदेशलक्षणद्वितीयकपालेन समं विभागः क्रियते। तदनन्तरं तेन विभागेन घटारम्भकीभूतकपालद्वयसंयोगोऽस्यासमवायिकारणम्, तस्य विनाशः क्रियते । तदनन्तरमसमवायिकारणनाशजन्यो घटादिविनाशो जायते । एवमस्मदाद्यदृष्टध्वंसवदात्मसंयोगेन कपालसमवायिकारणीभूतकपालिकायां क्रियोत्पद्यते । तया क्रियया 'कपाललक्षणद्वितीयो योऽवयवः, तेन समं क्रियया कपालिकायाः विभागो जातः । तेन विभागेन कपालारम्भकीभूतकपालिकाद्वयसंयोगलक्षणस्यासमवायिकारणस्य नाशः क्रियते । तदनन्तरमसमवायिकारणनाशात् कपालनाशो जायते । एवं द्वयणुकपर्यन्तनाशो बोध्यः ।
१. B omits तदनन्तरं २. Bomits इति. ३. B संयोगो योऽसम. ४. कपालद्वितीयो-.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org