________________
तर्कतरङ्गिणी
१८५ अवयविनीति जलद्वयणुकादौ यद्रूपमपाकजमुत्पद्यते तज्जलपरमाणुरूपेणैव । 'पार्थिवद्वयणुकादौ तु रूपादिकं कदाचिदग्निसंयोगेनाप्युत्पद्यते । तस्य पाकजत्वादित्यर्थः ।
नोदनाभिघातलक्षणं करोति-स्पर्शवद् यद् द्रव्यं तस्य' यः संयोगः, सः नोदनाख्यः संयोगविशेष उच्यते । स्पर्शवेगो यत्र द्रव्यत्वे (द्रव्ये ?) वर्तते, तस्य यः संयोगविशेष: रेसः अभिघाताख्य उच्यते । तथा कुत्रचिददृष्टवशान्नोदनाख्यः संयोगो जायते, कुत्रचिदभिघाताख्यः । तेन संयोगेन कार्य क्रियारूपमभुयत उत्पद्यत इत्युभयमपेक्ष्यत इत्यर्थः ।
संहारपूर्वकाल इति -यदि संहारसमाने काले महेश्वरस्य संजिहीर्षा जायते तदा संहारं प्रति महेश्वरेच्छाया: कारणत्वमेव न स्यात्, तदानीं च संहारस्य वृत्तत्वात् । यद्यपि संहारपूर्वकालेऽपि महेश्वरे तिष्ठत्येव तस्याः न स्यात् नित्यत्वात्, तथापि प्रलयपूर्वकाले संजिहीर्षात्वधर्मविशिष्टा नास्ति । अत एव नैयायिकै विशिष्टाभावः स्वीक्रियते । “यदापीश्वरस्य सृष्टिकाले इच्छात्वविशिष्टा इच्छा तिष्ठति, तदापि तदानीं संजिही त्वविशिष्टा नास्ति । यदा तु 'तद्धर्मविशिष्टा भवति, तदा तदनन्तरं संहार उत्पद्यते । अत एव कैश्चिद् दूषणं दीयते । - ईश्वरेच्छायाः नित्यत्वेनेदानीमपि तस्य वर्तमानत्वेन संहारापत्तिरिति दूषणं परास्तम् । इदानीं संजिहीर्षात्वविशिष्टाया इच्छायाः अभावो विशेषणाभावप्रयुक्तस्तिष्ठतीति नेदानी प्रलयः, कारणाभावादिति मनसि कृत्वा व्याचष्टे-संहारपूर्वकालेइति तथा च पूर्ववर्तिन एव कारणत्वमिति भावः । क्रियाकाराणादिति भोगजनकीभूतादृष्टध्वंसवदात्मसंयोगविशेषात् कारणीभूतादित्यर्थः ।
तथा वेति मूलम्-न तन्तुनाशे सति पटनाश इत्यनुपपन्नम् । असमवायिकारणनाशेनैव कार्यद्रव्यनाश इति नियमात् । तथा च पटस्य समवायिकारणं भवति तन्तुः, तन्नाशेन पटनाशः कथं जननीय इत्यत आह प्रलय एवेति । तथा च प्रलये द्वयणुकादिनाशेनैव त्रयणुकादिनाशो जायते । तथा च समवायिकारणनाशस्यापि कार्यद्रव्यनाशं प्रति कारणत्वं वाच्यम् । ततः पटनाशं प्रति तन्तुनाशस्यापि कारणत्वं स्वीकर्तव्यमेवेति । समवायिकारणनाशस्यापि कार्यद्रव्यनाशं प्रति अन्यत्र कारणत्वेन क्लृप्तत्वात् । यत्र च कपालिकायां कपालारम्भकीभूतसंयोगनाशकारणीभूतक्रिया जाता तस्मिन्नेव क्षणे कपालेऽपि क्रिया वृत्ता । तदनन्तरं द्वितीयक्षणे कपालिकाक्रियया द्वितीयकपालिकाद्विविभागो जनितः । तस्मिन्नेव क्षणे कपालक्रियया द्वितीयकपालाद्विभागो जनितः । तदनन्तरं तृतीयक्षणे कपालिका[वि]भागेन द्वितीय कपालिकासंयोगनाशः कृतः । तस्मिन्नेव क्षणे कपालविभागेन द्वितीयकपालसंयोगनाशः । अथ च कपालिकासंयोगनाशेन “कपालनाशो जातः । तथा चैकस्मिन्नेव १. B अपार्थिव. २. B तस्य नाशः संयोगः सः. ३. B omits सः. ४. B तदानीमीश्वरस्य. ५. B विशिष्टो नास्ति । भवति (!). ६. It is यथा in the original त. भा. प्र. ७. B omits reading between कपालिका.........द्वितीयकपा.. ८. B कपालिनाशो. तर्क.-२४
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org