SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १८६ तर्कतरङ्गिणी क्षणे कपालनाशः कपालि[का]संयोगनाशजनितः । कपालविभागजनितस्तु कपालद्वयसंयोगनाशः एकस्मिन्नेव क्षणे जातः । तदनन्तरमवश्यं घटनाशो जायते । समवायिकारणासमवायिकारणनाशात् । ___ तथा च यत्र समवायिकारणासमवायिकारणयोः सामग्रीवशादेकदैव नाशो वृत्तस्तत्र विनिगमनाविरहेण समवायिकारणासमवायिकारणनाशयोः कार्यद्रव्यनाशं प्रति जनकत्वं वाच्यमेवेति । तथा च कुत्रचित्समवायिकारणनाशाज्जन्यद्रव्यनाशः, कुत्रचिदसमवायिकारणनाशाज्जन्यद्रव्यनाशः । इत्यनुगमं मनसि कृत्वा शङ्कते-नन्विति तथा च द्वयणुकस्थले ऽसमवायिकारणनाशेनपरमाणुद्वयसंयोगनाशेनैव द्रव्यनाशस्य-द्वयणुकनाशस्य' सम्भवेन तत्र समवायिकारणपरमाणु-नाशासम्भवेन समवायिकारणनाशेन द्वयणुकनाशासम्भवात् असमवायिकारणनाश एव सर्वत्र कार्यः द्रव्यनाशप्रयोजको मन्तव्यः । तथा चानेन रूपेणानुगमः । न च घटदिस्थले समवायिकारणनाशस्य' कार्यद्रव्यघटलक्षणनाशप्रति जनकत्वं क्लृप्तम्, तथा सर्वत्र समवायिकारणनाशेनैव कार्यद्रव्यनाश इति वाच्यम्। व्यभिचारात् । द्वयणुकनाशस्थले समवायिकारणनाशव्यतिरेकेणापि असमवायिकारणनाशेनैव द्वयणुकनाशात् । न च द्वयणुकान्यजन्यद्रव्यनाशकत्वेन कार्यता, समवायिकारणनाशत्वेन कारणतेति वाच्यम् । द्वयणुकान्यजन्यद्रव्यनाशत्वं नीलेतरघटत्वादिवद् कार्यतावच्छेदकमेव न भवतीति । यथा नीलेतरघटः स्वसामग्रीसमानादेव भविष्यति तद्वदसमवायिकारणनाशेन कार्यद्रव्यनाशो येन स्वीक्रियते तेन क्षणविलम्बः २स्वीकर्तव्यः । यथा प्रथमतः कपालादिनाश तदनन्तरं तत्संयोगनाशः तदनन्तरं घटदिनाश: असमवायिकारणनाशक्षणे घटः क्षणमात्रं काले दिशि वा तिष्ठतीति ।। न चेति यद्यसमवायिकारणनाशादेव द्रव्यनाशस्तदा घटस्य कपालनाशानन्तरं क्षणद्वयावस्थितिः स्यात् । यथा प्रथमक्षणे कपालनाशः द्वितीयक्षणे तत्संयोगनाशः तृतीयक्षणे कपालनाशक्षणापेक्षया 'घटनाश इति समवायिकारणं विना कार्यद्रव्यस्य क्षणद्वयावस्थिति: स्यात् । न च तथाऽनुभवोऽस्ति । कपालनाशानन्तरं ह्यव्यवहितोत्तरक्षण एव घटो नष्ट इति 'प्रतीतेरिति समवायिकारणनाश एव युक्त इति कण्टकार्थः । कारणान्तरेति यदि द्वयणुकस्थलेऽसमवायिकारणनाशस्य जन्यद्रव्यनाशं प्रति जनकत्वं क्लृप्त तेनैव सर्वत्र निर्वाहो यदि भवति तदा समवायिकारणनाशस्यापि कारणत्वं किमर्थं कल्पनीयम् । तथा सति गौरवप्रसङ्गः । तथैवोत्थित्वात् घटादेः क्षणद्वयावस्थितेरेव युक्तत्वात् । "कपालनाशेति तथा च समवायिकारणनाशस्यापि कार्यद्रव्यनाशजनकताकल्पने १. omits व्यणुकनाशस्य. २. B -नाशेऽस्य. ३. B कर्तव्यः. ४. B -नाशक्षणापेक्षयेति. ५. B -इतरेति (!). ६. B यदि निर्वाहो भवति. ७. This प्रतीक is not found in त. भा. प्र. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002581
Book TitleTarkatarangini
Original Sutra AuthorN/A
AuthorGunratna, Vasant G Parikh
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy