________________
१८७
तर्कतरङ्गिणी इच्छालाघवमेव । तथाहि गुणस्थले समवायिकारणनाशत्वेन कारणता, तत्समवेतगुणत्वनाशत्वेन कार्यतेति कल्प्यमाने लाघवात् । समवायिकारणनाशत्वेन तत्समवतनाशत्वेन च कार्यकारणभाव इति लाघवम् । गुणद्रव्यादिपदं 'कार्यतादिशि न देयमेव । तत्समेवतपददानात् । तथा च समवायिकारणनाशेन 'तत्समवेतत्वेन द्रव्यगुणकर्माणां नाशः क्रियते एवेत्ययं कार्यकारणभावस्तु गुणादिनाशानुरोधेन कल्पनीय एव । यदि तेनैव कार्यकारणभावेन द्रव्यनाशोऽपि सम्भवति तदा द्रव्यनाशानुरोधेनासमवायिकारणनाशस्य तन्नाशजनकत्वं किमर्थं कल्पनीयम् ?
नन्विति तथा च योऽसमवायिकारणनाशत्वेन द्रव्यनाशं स्वीकरोति स गुणनाशस्थले कार्यदिशि द्रव्येतरविशेषणं ददाति । यथा समवायिकारणनाशत्वेन कारणता, तत्समवेतद्रव्येतरजन्यगुणादिनाशत्वेन च कार्यता, तेन स्वीक्रियते । तथा सति गौरवम् । द्रव्येतरतत्समवेतजन्यनाशत्वं कार्यतावच्छेदकमपि न भवति । नीलेतरघटत्ववत् । तथा च समवायिकारणनाशत्वेन तत्समवेतजन्यनाशत्वेन कार्यकारणभाव एव स्वीकर्तव्य इति लाघवात् । अत्र कार्यकारणभावे "द्रव्यनाशस्यापि सङ्ग्रहो जात एव । तथा चान्यत्र गुणविनाशस्थले क्लृप्तकार्यकारणभावेनैव द्रव्यनाशस्थलेऽपि निर्वाह श्चेद्भवति, तदाऽसमवायिकारणनाशस्य द्रव्यनाशं प्रति कारणत्वं किमर्थं कल्पनीयमिति ।
अयं प्रघट्टः – गौरवं च तदा भवति यदा द्रव्यनाशानुरोधेनैव समवायिकारणनाशस्य कारणत्वं कल्प्यते । परमन्यत्र गुणनाशादिस्थले क्लृप्तो यः कार्यकारणभावो यथा समवायिकारणनाशत्वेन तत्समवेतजन्यनाशत्वेन च कार्यकारणताभाव इति क्लुप्तेनैव निर्वाहात् । द्रव्यनाशस्थलेऽपि स एव कार्यकारणभावः स्वीकर्तव्यः । लाघवात् । एतावता द्वयणुकादन्यत्र समवायिकारणनाशेनैव द्रव्यनाशः क्लृप्तकार्यकारणभावेनैव स्थापितः ।।
___साम्प्रतं तदुपरि च केनचिद् द्वयणुकनाशस्थले व्यभिचारो दत्तः । यथा समवायिकारणनाशव्यतिरेकेणापिद्वयणुकनाशसम्भवादिति । शङ्कते-द्वयोरिति तथा च द्वयोः समवायिकारणासमवायिकारणनाशयोः यदि द्रव्यनाशकत्वम्, तदाऽननुगमः व्यभिचार उक्तरूपो द्वयणुकस्थले इत्याशङ्कार्थः ।
उभयोः कारणत्वार्थानुगमं करोति-निमित्तकारणेतरेति । तथा चोभयनिष्ठं निमित्तकारणादितरकारणनाशत्वं कारणतावच्छेदकत्वं, द्रव्यनाशत्वं च कार्यतावच्छेदकम् । इदं द्रव्यनाशस्थले । गुणादिना[श]स्थले तु समवायिकारणनाशत्वं कारणतावच्छेदकं भिन्नम् । अभिन्न १. B कार्यतादिसमं. २. B तत्समवेतत्वद्रव्य.. ३. B कल्पनीयमेव । ४. B द्रव्यनाशेऽपि. ५. B शीघ्रतं. ६. B निमित्तकारणमिति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org