________________
तर्कतरङ्गिणी
कार्यकारणभावेति द्वयणुकनाशस्थले परमाणुद्वयसंयोगनाशत्वेन कारणता, द्वयणुकनाशत्वेन कार्यता । अत्रानन्यथानुपपत्त्या द्वयणुकनाशं प्रति असमवायिकारणनाशस्य कारणत्वं कल्प्यते, नान्यत्र । तत्र क्लृप्तेनैव समवायिकारणनाशेन निर्वाहात् । ननु प्रलये कि प्रमाणमिति चेत्, अनुमानमेव । तथाहि कालकपालान्यवृत्तिर्घटप्रागभावः कार्यद्रव्यानाधारधारः कार्यद्रव्यानधिकरणकार्याधिकरणवृत्तिर्वा, अभावत्वात् आकाशवृत्त्यन्योयन्याभाववदिति' ।
१८८
अयमर्थः - यो घटप्रागभावः कालकपालाभ्यामन्यत्र न वर्तते । वर्तते च काले कपाले च । तथा च कालकपालान्यवृत्तित्वविशिष्टो घटप्रागभावः पक्षः । साध्यार्थः यथा कार्यद्रव्यस्यानधिकरणीभूतो यः कालः स एवाधारो यस्य तत्त्वं साध्यं यत्र काले कार्यद्रव्यं न वर्तत इत्यर्थः । खण्डप्रलयसिद्ध्यर्थं द्वितीयं साध्यम् । यथा कार्यद्रव्यस्थानधिकरणीभूतः अथ च कार्यस्याधिकरणीभूतः पदार्थः तद्वृत्तित्वं साध्यम् । तथा च यत्र पदार्थे कार्यद्रव्यं न तिष्ठति, यत्किञ्चित्कार्यं च तिष्ठति, तद्वृत्तित्वं घटप्रागभावस्य साध्यम् । दृष्टान्तो यथा - आकाशवृत्तिर्योऽन्योन्याभावस्तदृष्टान्तः । तत्र घटादीनामन्योन्याभावसत्त्वात् । त त्रान्योन्याभावेऽ - भावत्वं हेतुस्तिष्ठति । कार्यद्रव्यानाधाराधारत्वं साध्यमपि तिष्ठति । कार्यद्रव्यस्यानाधारो भवत्याकाशम्' । 'तदाधारत्वाकाशवृत्त्यन्योन्याभावे तिष्ठति । यथा कार्यद्रव्यानधिकरणं भवत्याकाशम् कार्यस्य च शब्दसंयोगादिलक्षणस्याधिकरणं भवति तद्वृत्तित्वमाकाशवृत्त्यन्योन्याभावे तिष्ठति ।
तथा चायं पक्षः ।-कार्यद्रव्यानधिकरणकार्याधिकरणवृत्तित्वं व्याप्याभावत्ववानयमिति परामर्शः । तदनन्तरं कार्यद्रव्यानधिकरणकार्याधिकरणवृत्तित्ववानयमित्यनुमितिः । अनेन खण्डवृत्तप्रलयसिद्धिः ।
,
तत्र' वेदादृष्टकार्यसत्त्वात् । आगमिलप्रलयानुमानं चेदम् । 'घटः ध्वंसकार्यद्रव्यानधिकरणकार्याधिकरणत्ववृत्तिः । अभावत्वात् । आकाशे वृत्तिसाध्यशाब्दध्वंसवत् । ' (१) । अथवा 'घटः कार्याधिकरणकार्यद्रव्यानधिकरणवृत्तिध्वंसप्रतियोगी । कार्यत्वात्, शब्दवत् । (२) । 'कार्यद्रव्यत्वं कार्याधिकरणकार्यद्रव्यानधिकरणवृत्तिध्वंसप्रतियोगिवृत्ति । 'कार्यमात्रवृत्तित्वात्, शब्दवत्' । (३) ।
प्रथमसाध्यार्थो-यथा कार्यद्रव्यस्य योऽनधिकरणीभूतो पदार्थः अथ च कार्यस्याधिकरणीभूतः पदार्थः कालाकाशरूपः तद्वृत्तित्वं साध्यम् । यथा शब्दध्वंसे हेतुसाध्ययोः सत्त्वम् । द्वितीयानुमाने घटो भवति पक्षः । तत्र कार्यस्याधिकरणीभूतो यः पदार्थ स एव कार्यद्रव्यस्यानधिकरणीभूतः । तद्वृत्तिर्यो ध्वंसः तस्य प्रतियोगी । आगामिप्रलये एव घटध्वंसस्तिष्ठति । सः कीदृश: ? गतप्रलये 'वर्तमाने
१. B तथा. २. B -भाव इति । ३. B कपालकपालाभ्याम.. ४. B काशः । ५. B omits the reading between तदाधार....भवत्याकाशम् ६. B अत्र. ७ B - मात्रत्वात् । वृत्तित्वात् ८. B प्रवर्तमाने घट -.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org