________________
तर्कतरङ्गिणी
१८९ घटध्वंसो नास्तीत्यनेन वृत्तप्रलयसिद्धि न भवति । वर्तमानघटध्वंसस्तु कार्यद्रव्यानधिकरणीभूते कार्याधिकरणे खण्डप्रलयकाले 'प्रवर्तते । न्यायमते तत्प्रतियोगित्वं चास्मिन् घटे तिष्ठतीति यदि च द्रव्यपदं न दीयते किन्तु कार्यानाधारत्वमेव साध्यम्, तदा महाप्रलयकालसिद्धिः ।
खण्डप्रलये न्यायमते वेदस्तिष्ठति । महाप्रलये च वेदोऽपि न तिष्ठति । जन्यमात्रस्य तदानीमभावेन महाप्रलये सर्वमुक्तिरिति दिक् ।
सर्वतः सूक्ष्ममिति मूलम्-त्रसरेणु लक्षणम् - त्रयणुकं प्रत्यक्षम् । स्वल्पं परिमाणं यस्य तत् स्वल्पपरिमाणं द्वयणुकरूपं द्रव्यम् । तदास्थं तज्जन्यम् । हेताविति-त यदि कार्यत्वादित्युच्यते तदारूपादौ व्यभिचारः । तद्वारणाय द्रव्यत्वादिति तत्रेति । रूपे परिमाणाभावेन तदपेक्षया तदधिकस्वल्पपरिमाणत्वं वक्तुमशक्यम् । तथा च रूपे साध्यासत्त्वे व्यभिचार इत्यर्थः । तदितीति - तद् द्वयणुकं त्र्यणुकस्य समवायिकारणत्वेन सिद्धम् । तद् द्वयणुकं कार्यम् । महदिति महद द्रव्यारम्भकं द्रव्यं च कार्यमेव । महत्पदमिति परमाणौ व्यभिचारं वारयितुं महदिति । अत्रेति - "द्वयणुके त्रसरेणौ चेत्युद्देश्यसि द्धये । उद्देश्य सिद्धिशब्देन स्वल्पपरिमाणद्रव्यारब्धं साध्यम् । तस्य सिद्ध्ये स्वल्पपरिमाणत्वं विशेषणं साध्ये देयम् । अन्यथेति यदि स्वल्पपरिमाणपदं न दीयते तदा द्रव्यारब्धत्वमेव सेत्स्यति । न तु स्वल्पपरिमाणद्रव्यारब्धत्वम् । तावतैवेति द्रव्यारब्धत्वेनवेत्यर्थः । यद्यपीति । तथा च जन्यद्रव्यानारम्भकत्वप्रकारिका: द्वयणुकपरमाणवः जाताः । तथापि द्वयणुकत्वपरिमाणत्वप्रकारिका तु न जाताः । परमाणुद्वयणुकत्वरूपेण साध्यज्ञानं नास्तीति कथं तत्प्रकारिका प्रतीतिः स्यादिति भावः । यत्प्रकारिकेति प्रकृते तु स्वल्पपरिमाणद्रव्यारब्धत्वप्रकारिका प्रतीतिरस्ति । अत्रैव विशेषणस्य स्वल्पपरिमाणरूपस्य सार्थकता ज्ञातव्या ।
तथा चेति यदि परमाणुर्नाङ्गीक्रियते तदाऽनवस्था दोषः, । यथा 'द्वयणुकसमवायिकारणं कार्यद्रव्यारब्धम्, कार्यद्रव्यारम्भकत्वात् त्रसरेणुवत् । तथाऽग्रेपि 'परमाणु समवायिकारणम्, कार्यद्रव्यारब्धम् कार्यस्यारम्भकत्वात् द्वयणुकवत् ।' एवं परमाणुसमवायिकारणसमवायिकारणं कार्यद्रव्यारब्धमित्यनवस्था स्यादित्यर्थः । अप्रमाणिकतामिति तथा च यद्यनवस्थापि स्वीक्रियते तदा मेरुसर्षपयोरपि तुल्यपरिमाणत्वापत्तिः । "सर्षपस्याप्यन्तो नास्ति, मेरोरप्यन्तो नास्ति-इति तुल्यपरिमाणतैवानवस्था बाधिका । तथा चानवस्थाऽप्रमाणिकैवेति भावः ।
अत्र शङ्कते नन्विति तथा च तुल्यपरिमाणता न भविष्यति । मेरोरनन्तावयपरम्परारब्धत्वं
१. B वर्तते. २. B खण्डमते वेद.. ३. B omits च. ४. B त्र्यणुके. ५. B विशेष्यपरिमाणस्वतपरूपस्य. ६. सरेणुवत् । तथाऽग्रेऽपि-'परमाणु समवायिकारणम्, कार्यतव्यारब्धम् कार्यद्वारम्भकत्वात् । ७. B repeats the reading between सर्षपस्या......तैवानवस्था after नन्विति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org