________________
१९०
तर्कतरङ्गिणी सर्षपादौ तुल्यावयवारब्धत्वमिति परिमाणभेदाभिन्नपरिमाणता मेरुसर्षपयोः । ततो नानवस्थेति भावः । अनवस्थायां बाधकं प्रयच्छति-द्वयणुकस्येति तथा च यदि द्वयणुकं सावयवद्रव्यारब्धं भवति तदा द्वयणुके महत्त्वपरिमाणमपि स्यात् । तत इदमनुमानम् द्वयणुकं महद् द्रव्यम्, सावयवद्रव्यारब्धत्वात् त्र्यणुकवदिति।' तथा च द्वयणुकस्य महत्वे सत्युद्भूतरूपवत्त्वेन प्रत्यक्षता स्यादिति बाधकमनवस्थायाः प्रमाण्यकत्वे इति भावः ।
नन्वेकेनैव परमाणुना द्वयणुकं कथं नारभ्यते इत्यह आह-असमवायिकारणेति । महत्त्वमिति । यदि त्रिभिः परमाणुभिः द्वयणुकमारभ्यते तदा द्वयणुके महत्त्वमपि स्यात् । ननु यदि द्वाभ्यां त्र्यणुकमारभ्यते तदा त्र्यणुके महत्त्वं न स्यादित्याह नन्विति प्रचयाख्येति द्वयोः द्वयणुकयोः प्रचयाख्यसंयोगोऽपि न सम्भवति । प्रचयाख्यसंयोगो नाम चाक्षुषद्रव्यारम्भकः संयोगः । स च न स्यात्। द्वयणुकद्वयनिष्ठो यः संयोगः सः चाक्षुषद्रव्यारम्भको न भवति । स्वकार्ये त्र्यणुकलक्षणे द्वयणुकद्वयनिष्ठं यत्परिमाणं तेनाणुकनिष्ठं परिमाणमारभ्यते । द्वयणुकद्वयनिष्ठं तु अणुकपरिमाणमेव । तथा चाणुपरिमाणेन कारणे गते कार्यगतं महत्त्वं परिमाणं कथामरम्भमणीयम् ? कार्ये यत्महत्त्वमुत्पद्यते तत्कारणमहत्त्वाद्वा कारणबहुत्वाद्वा । तथा च द्वाभ्यां द्वयणुकाभ्यां त्रसरेणुरूपं कार्यमारभ्यते । तदा त्रसेरुणौ कारणगतमहत्त्वाभावेन बहुत्वाभावेन च महत्त्वं न स्यात् । इति त्रिभिरेव द्वयणुकैः महत्त्वान्यथानुपपत्त्या त्र्यणुकमारभ्यते, न तु द्वाभ्याम् ।
ननु त्रिभिः परमाणुभिः कथं त्र्यणुकं नोत्पद्यते मध्ये किमर्थं द्वयणुकमङ्गीक्रियते, इति चेत्, न । मह[द्] द्रव्यारम्भकद्रव्यस्य कार्यद्रव्यत्वं स्यादिति' बाधकम् । आरम्भकपदं समवायिकारणपरमिति नेश्वरेण बाधः यदि द्वयोः द्वयणुकयोः प्रचयाख्यो संयोगो भवति, तदा द्वयणुकयोरपि प्रत्यक्षत्वं स्यात् । ययोः प्रचयाख्यः संयोगो वर्तते तयोः प्रत्यक्षताऽपि स्वीकर्तव्या । यथा कपालयोः द्वयोः । तथा च द्वयणुकत्रयनिष्ठबहुत्वसङ्ख्याता व्यणुके महत्त्वमुत्पाद्यते-इति महत्त्वान्यथानुपपत्तिरेव द्वयणुकत्रयस्यैव त्रसरेणुं प्रति कारणत्वे प्रमाणमित्यर्थः ।
[इति परमाणुवादः ॥]
दव्यप्रकरणम् (Conti.) (४) आकाशम्
शब्दगुणमाकाशमिति । शब्द: गुणो यस्य तदाकाशमित्यर्थः । तथा च शब्दसमवायि
१. B omits the reading between बाधकं..............नेश्वरेण बाधः.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org