________________
तर्कतरङ्गिणी
१९१
कारणत्वेनाकाशसिद्धिः । ननु शब्दः पृथिव्यादीनां गुणो भविष्यतीति चेत् न । तत्र परिशेष एव प्रमाणम् । यथा शब्दस्य गुणादौ प्रसक्तिरेव नास्त्यतः [त]त्र स न निषिध्यते । पृथिव्यादीनां च द्रव्यत्वात् । सगुणत्वेन शब्दस्यापि गुणत्वेन तत्र प्रसक्तिर्जाता । 'शब्दः पृथिव्यादीनां गुणो भविष्यतीति ।' तत्र परिशेषो - यथा 'शब्दो न पृथिवीगुणः, श्रोत्रग्राह्यत्वात् । व्यतिरेकी यो पृथिवीगुणः स श्रोत्रग्राह्यो न भवति, यथा पृथिवीरूपादिकम् ।' तथा च शब्दोऽऽत्मनोऽपि गुणो न भवति । तद्गुणत्वे मानसप्रत्यक्षत्वापत्तिः । कालादीनां च विशेषगुणत्वाभावान्न तद्गुणः । तथा परिशेषः शब्दोऽऽकाशवृत्तिः । आकाशेतरवृत्तित्वे सति वृत्तित्वादाकाशैकत्ववदिति । घटादाविति । अन्यथा घटादौ व्यभिचारः स्यात् । एकैन्द्रियग्राह्यत्वरूपो हेतुस्तत्र तिष्ठति । विशेषगुणत्वरूपं साध्यं नास्तीति ।
नन्वस्मदादीतिपदं किमर्थमुक्तम् ? अत आह अप्रसिद्धमिति तथा च योगिनां योगजधर्मसहकारेणादृष्टविशेष्यसहकारेण सर्वेन्द्रियैः सर्वं गृह्यते तथा शब्दोऽपि तैः चक्षुरादिना गृह्यत इति - एकेन्द्रियमात्रग्राह्यत्वमेव प्रसिद्धमित्यत उक्तमस्मदादीति । ज्ञानादिलक्षणयेति तथा च शब्दस्य कदाचिद[T]नुमानिकं ज्ञानं वृत्तम्, तदनन्तरं कालान्तरजन्यसंस्कारेण शब्दस्य स्मरणं जन्यते । तदा स्मरणसहकृतेन चक्षुषा शब्दप्रत्यक्षं ज्ञानं जायते । अथवा शब्दत्वसामान्यलक्षणप्रत्यासत्त्या चक्षुरादिनामपि शब्दज्ञानं जायते इति नेकेन्द्रियमात्रग्राह्यत्वमिति लौकिकपदमपि दातव्यमेव । अप्रत्यक्ष इति । अप्रत्यक्षसङ्ख्यादौ । तत्र हि द्वीन्द्रियग्रहणयोग्यताराहित्यं रूपादौ हेतुरस्ति । विशेषगुणत्वं नास्तीति व्यभिचार इत्यर्थः ।
बाह्येति । तथा चातीन्द्रियपदार्थे लौकिकप्रत्त्यासत्त्येन्द्रियग्राह्यत्वे सति द्वीन्द्रियग्रहणयोग्यताराहित्यादयं हेतुः कर्तव्यः । सत्त्यन्तमतीन्द्रियपदार्थे व्यभिचारवारणार्थम् । विशेष्यदलं चैकेन्द्रियगृहीतनिष्ठघटे व्यभिचारवारणार्थम् । इदानीमपि प्रभासङ्ख्यायां व्यभिचारो वृत्तः । तत्र लौकिकप्रत्यासत्त्येन्द्रियग्राह्यत्वे सति द्वीन्द्रियग्रहणयोग्यताराहित्यरूपो हेतुस्तिष्ठति । विशेषगुणत्वरूपं साध्यं नास्तीति व्यभिचारः । प्रभाया एकत्वस्य चक्षुरिन्द्रियमात्रग्राह्यत्वात् । एतद्वारयितुं विवक्षान्तरं करोति शब्दो विशेषगुण इति । तथा च प्रभासङ्ख्यायामेकत्वरूपायां न व्यभिचारः । यद्यपि प्रभैकत्वे लौकिकप्रत्यासत्त्येन्द्रियग्राह्यत्वे सति लौकिकप्रत्यासत्या द्वीन्द्रियग्रहणयोग्यताराहित्ये सति गुणत्वव्याप्यजातिमत्त्वरूपो हेतुस्तिष्ठति परं गुणत्वसाक्षाद्व्याप्यजातिमत्त्वं नास्तीति । तथा च गुणत्वसाक्षाद् व्याप्या जातिर्भवति सङ्ख्यात्वम् । तद्व्याप्या जातिर्भवत्येकत्वरूपा । अत्र हेतौ 'साक्षाद्' पदमपि देयमेव ।
प्रभात्वमिति अन्यथा प्रभायां व्यभिचारो भवति । तत्रापि लौकिकप्रत्यासत्त्येन्द्रियग्राह्यत्वे १. A omits च. २. B omits च. ३. B omits च. ४. B संस्कारे. ५. Bomits हि. ६. B इन्द्रिय ७. B omits अपि. ८. Bomits तथा च.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org