________________
१९२
तर्कतरङ्गिणी सति लौकिकप्रत्यासत्त्या द्वीन्द्रियग्रहणयोग्यताराहित्ये सति व्याप्या जाति र्भवति प्रभात्वम् । प्रभायामपि हेतुस्तिष्ठति, विशेषगुणत्वरूपं साध्यं नास्तीति व्यभिचारः स्यात् । तद्वारणाय गुणत्वव्याप्येति । प्रभात्वं च द्रव्यत्वव्याप्यम्, न च गुणत्वव्याप्यम् ।
गुरुत्वमिति । यदि प्रथमं सत्यन्तं न दीयते तदा 'गुरुत्वे व्यभिचारो भवति । यथा गुरुत्वे लौकिकप्रत्यासत्त्या द्वीन्द्रियग्रहणयोग्यताराहित्ये सति गुणत्वव्याप्यजातिमत्त्वं हेतुस्तिष्ठति । गुरुत्वस्यातीन्द्रियत्वेन द्वीन्द्रियग्रहणयोग्यताराहित्यं तिष्ठति । विशेषगुणत्वरूपं साध्यं नास्तीति व्यभिचारः । इति सत्यन्तम् । तथा च गुरुत्वे लौकिकप्रत्यासत्त्येन्द्रियग्राह्यत्वाभावाद्धेतुरेव नास्तीति न व्यभिचारः । गुरुत्वस्यातीन्द्रियत्वात् ।
अथ द्वितीयं सत्यन्तं सङ्ख्यात्वमादायैकत्वादौ व्यभिचारवारणार्थम् । अन्यथा घटैकत्वादौ लौकिकप्रत्यासत्त्येन्द्रियग्राह्यत्वे सति गुणत्वव्याप्या जातिः सङ्ख्यात्वम् । तद्वत्त्वरूपो हेतुस्तिष्ठतीति व्यभिचारः स्यात् । प्रभावेग इति । उत्कर्षापकर्षरूपा जातिर्यदि तेजोनिष्ठवेगे गुणत्वव्याप्या तिष्ठति, तदा तामादाय व्यभिचारो भवति । तदा तया व्यभिचारवारणार्थं साक्षादिति गुणत्वव्याप्याजातेविशेषणमिति ।
विभुत्वादिति विभुत्वं नाम सर्वमूर्तसंयोगित्वम् । तता च यद् विभुद्रव्यं भवति तदेकमेव । क्षेत्रज्ञात्मभिन्नं सदेकं तद्विभुः । अनेककल्पनायां प्रमाणाभावादित्यर्थः । परममहदिति - महत्परिमाणं 'घटदावप्यस्तीति परममहदिति । अतो नात्वम्, षष्ठीतत्पुरुष एवेति परममहा(हद्) परिमाणवदिति न भवति । तत्र हेतुमाह-सामानाधिकरण्याभावादिति समानाधिकरणसमासे कर्मधारय एव समासे आत्वमित्यर्थः । (५) कालः ।
दिग्विपरीतत्त्वमिति । कालनिष्ठपरत्वापरत्वयोनिष्ठा दिग्विपरीतत्वं जातिरेव गुणत्वव्याप्यव्याप्या जातिः । तदनुमेयत्वमिति - तथा चानित्यद्रव्ये घटादावपि परत्वापरत्वानुमेयत्वं वर्तते । यथा-'घटो द्रव्यम्, परत्वापरत्वाश्रयत्वादिति' ।
तथापीति-इदं कालस्य लक्षणम् । तदिति 'तद्'-पदेन कार्यद्रव्यम् । तस्यासमवायिकारणीभूतो य: कालपिण्डसंयोगः तदाश्रयत्वे सति विभुत्वं कालत्वम् । विभुत्वपदादाने कालपिण्डसंयोगाश्रये पिण्डेऽतिव्याप्तिः । तद्वारणार्थं विभुत्वपदम् । सत्यन्तमाकाशादावतिव्याप्तिवारणार्थम्, परत्वादावपि । १. B गुणत्वे. २. B घटादावस्तीति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org