________________
तर्कतरङ्गिणी
१९३ तथा च कालकृतपरत्वापरत्वयोदिक्कृत् परत्वापरत्वाविपरीतत्वं कथम् ? अथवा ताभ्यां कालस्यानुमेयत्वं कथमिति प्रश्नद्वयमित्यर्थः ।
प्रथमप्रश्रस्योत्तरं ददाति-दिक्कृतेति । तथा च सन्निधाने निकटे वर्तते यः, पुरुषे वृद्धपरत्वे, तत्र यद्यपि दिककृतं परत्वं नास्ति, तथाप्ययं-बालकादस्माद् परः इति परत्वम् तद्भेद प्रतीयते । तथा च तनिष्ठपरत्वे दिककृत् परत्व विपरीतत्वं तिष्ठति । तस्य निकटवर्तित्वात् । दिक्कृतं परत्वम् । यथा चैत्रेण समं यद्देशस्य संयोगः, तत्संयुक्तत्वं 'द्रव्यान्तरे, तत्संयुक्तत्वं देशान्तरे । एवं परम्परया संयुक्तसंयोगभूयस्त्वम् । एवं यः चैत्रापेक्षया निकटे वर्तते मैत्रस्तत्र चैत्रेण संयुक्तं यद्भूतलादि तत्संयुक्ताल्पत्वमेव ।
येनेति येन पदार्थेन समं पिण्डसंयोगोऽसमवायिकारणम्, अथ च सूर्यसंयोगो निमित्तकारणम्, तेन पिण्डेन समं यः सूर्यसंयोगः, स निमित्तकारणम् । तयोर्तत्पिण्डनिष्ठदिग्विपरीतपरत्वापरत्वयोः कारणम्, पृथिव्यादिकं न कारणम् । तस्य पृथिव्यादेरुभयप्राप्त्यभावात् परत्वापरत्वज्ञानं प्रति कारणत्वाभावात्। भूतलादिज्ञाने जातेऽप्य यमस्माद् परोऽयमस्मादपर'-इति प्रतीतिर्न जायते । पृथिव्यादिकं मूर्तद्रव्यत्वात् परत्वापरत्वज्ञानकारणं न भवतीत्युक्तं-ताभ्यामन्यत्रेति' ।
तथा चात्माकाशयोः परत्वापरत्वज्ञानकारणत्वेऽन्यत्रेति । अन्यत्र घटादावन्यधर्मस्योपनये ज्ञानजननेऽतिप्रसङ्गः । यथाऽऽत्माकाशयोः सर्वत्र सत्त्वात् तत्पिण्डं विहायान्यत्र पिण्डान्तरेऽपि परत्वापरत्वबुद्धिर्जन्यते । तत्प्र(द)तिप्रसङ्गः । न चेति कालस्यापि व्यापकत्वात् पिण्डान्तरेऽपि परत्वापरत्वजननप्रसङ्ग इति न वाच्यम् । समाधत्ते-सिद्ध्यसिद्धीति । तथा च यदि पिण्डान्तरे परत्वापरत्वप्रतीति र्जायते तदा कालस्य तत्कारणत्वमेव । यदि च न जायते तदा तत्र तस्यापादानमशक्यमिति सिद्ध्यसिद्धिपराहतिः । न च परत्रेति । तथा च परत्रैकपदार्थधर्मस्य परत्रपदार्थादन्यस्मिनुपनयो-ज्ञानं जन्यत इति । यत्र च परत्व तत्र परत्वबुद्धिरेव जन्यते । यत्र चापरत्वं तत्रापरत्वबुद्धिरेव जन्यते ।
वस्तुतः कालस्य परत्वं [अन्य]त्र परधर्मोपनायकत्वं वर्तते-यथा 'ऽयमस्मात्परं' इति बुद्ध्याऽपरत्वरूपो गुणो ज्ञातः, स एवान्यत्र-पिण्डान्तरे उपनीयते इत्यर्थः ।
तस्या इति । तथा च दिशः सर्वसाधारणैका प्रतीतिर्नास्ति । यथा या किञ्चिदपेक्षया प्राची, सैव किञ्चिदपेक्षया प्रतीचीति बुद्धिर्जायते । एवं तु काले नास्ति । यथा वर्तमानः सर्वापेक्षया वर्तमान एवेत्यर्थः।
१. B द्रव्यान्तरम्. २. B नान्यत्रेति । ३. B तदा. ४. B सत्त्वात्कारण..
तर्क.-२५
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org