________________
१९४
तर्कतरङ्गिणी (६) दिक्
विषय एवेति-ग्रामादिरूपो यो विषयः, स एव तादृश व्यवहारजनको भविष्यतीति न दिक कल्पनीयेत्याशङ्कार्थः । (७) मनः ।।
अतः मनःप्रकरणेऽव्यावृत्तेः स्थितिः । इदमेव स्पष्टयति-सर्वैरिन्द्रियेति । द्विविधमितिअणुपरिमाणमपि द्विविधम्-एकं परमाणुनिष्ठं नित्यम्, द्वितीयं द्वयणुकनिष्ठम् नित्यम् । तथा च मनसः "परमाणुरूपत्वात् तन्निष्ठं परिमाणमपि नित्यमेव ।
एतेनेति-केनचिन्मनस इदं लक्षणं कृतम्। - यथा - "सङ्कोचेति । सङ्कोचविकासशालित्वेन मनसो मध्यमपरिमाणवत्त्वं स्यात् । तथा सति च मनसोऽनित्यत्वं स्यादिति दूषणम्।
नानाज्ञानानीति-मनसोऽणुत्वात् [न]युगपदनेकानि ज्ञा[ना]नि जातानि भवन्ति । परं समूहालम्बनरूपमेकमनेकविषयं ज्ञानं भवति । मनसोऽणुत्वादेककालावच्छेदेनैकमेव ज्ञानमुत्पद्यत इत्यर्थः । तथा चैकदाऽनेकज्ञानजनकत्वाभावेन समूहालम्बनं विषयाणां भिन्नत्वेऽप्येकमेव ज्ञानम् । ततो मनोऽण्विति।
इति द्रव्यप्रकरणम् ।
[१८] ॥ अर्थप्रकरणे गुणनिरूपणम् ॥ अधुना गुणप्रकरणम्-गुणलक्षणं यथा-सामान्यवानिति । निष्कर्षमाह-कर्मेति तथा च कर्मान्यत्वे सति द्रव्यान्यत्वे च सति जातिमान् गुण इत्यर्थः । जातिमान् गुण इत्युक्ते द्रव्ये कर्मणि चातिव्याप्ति । अत उक्तम् । ततो द्वयभिन्नत्वमुपात्तम् ।
ननु यद्यपि द्रव्यभिन्नत्वे सति कर्मभिन्नत्वं द्रव्यकर्मो भयभिन्नत्वं प्राप्यते, तथा चोभयत्वावच्छिनप्रतियोगिकभेदो द्रव्ये कर्मणि च तिष्ठति, ततो गुणलक्षणं द्रव्येऽतिव्याप्तमिति चेत्, न । द्रव्यत्वावच्छिन्नप्रतियोगिताको भेदः, कर्मत्वावच्छिन्नप्रतियोगिताकश्च भेद इति भेदद्वयाधिकरणत्वे सति यः सामान्यवान् सः गुण इत्यर्थः । तथा च द्रव्ये कर्मणि च यद्यपि द्रव्ये
8. Following Govardhan Gunaratna rightly omits the discussion on ātmā, as it is already discussed as a Prameya. २. B ऽव्यावृत्तिस्थितिः । ३. B omits नित्यम. ४. B परिमाण:(?)रूप.. ५. B शङ्केति (?). ६. B omits च.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org