________________
तर्कतरङ्गिणी
१९५ कर्मत्वावच्छिन्नप्रतियोगिताको भेदो वर्तते तथापि द्रव्यत्वावच्छिनप्रतियोगिताको भेदो नास्ति । एवं कर्मणि यद्यपि द्रव्यत्वावच्छिनप्रतियोगिताको भेदो वर्तते तथापि कर्मतावाच्छिन्नप्रतियोगिताको भेदो नास्तीति भेदद्वयाधिकरणं गुण एवेति । द्रव्यत्वादावतिव्याप्तिवारणार्थं सामान्यवानिति पदम् ।।
शिरोमणिलक्षणं यथा-नित्यवृत्ति-नित्यवृत्तिसत्तासाक्षाद् व्याप्यजाति र्गुणत्वम् । विभुवृत्तिविभुवृत्तिसत्तासाक्षाद्व्याप्यजातिर्वा । प्रथमलक्षणार्थो यथा नित्यवृत्ति-यन्नित्यं तवृत्तिः सत्तासाक्षाद्व्याप्याया जाति: सैव गुणत्वमित्यर्थः । यथा नित्यो भवति जलपरमाणुः, तन्निष्ठं यन्नित्यं रूपादिकं तवृत्तिः सत्तासाक्षाद्व्याप्या जाति भवति गुणत्वम् । सत्तासाक्षाद्व्याप्या जातिः द्रव्यत्वादिकमपि भवतीति । तन्निरासाय नित्यवृत्तिवृत्ति पदम् । द्रव्यत्वादौ च नित्यवृत्तित्वं नास्ति । यथा नित्यं भवत्याकाशादिकम्', तन्निष्ठं यन्नित्यं तत्परिमाणादिकं तत्र द्रव्यत्वं नास्ति । यद्यपि नित्यवृत्तिनि द्वयणुके द्रव्यत्वं तिष्ठति तथापि द्वयणुकस्य नित्यत्वाभावात् नित्यवृत्तिवृत्तित्वं नास्ति। तथा जातिर्गुणत्वमित्युक्ते द्रव्यत्वेऽतिव्याप्तिः । अत उक्तं सत्ताव्याप्यजातिः । तथापि तत्रातिव्याप्तिः । तद्वारणार्थं नित्यवृत्तिवृत्तीति । साक्षात्पदं च रूपत्वादावतिव्याप्तिवारणार्थम् । नित्यो भवति जलपरमाणुः तद्ववृत्ति तद्रूपम् । तद्वृत्तित्वं च रूपत्वे तिष्ठति । सत्ताव्याप्यजातित्वमपि रूपे तिष्ठतीत्यतिव्याप्तिः । अत उक्तं साक्षादिति । तथा च सत्तायाः साक्षाव्याप्यं भवति गुणत्वम् । तद्व्याप्यं च भवति रूपत्वमिति ।
द्वितीयलक्षणार्थो यथा-विभुनि वर्तते यः पदार्थः, तद्वृत्ति र्या साक्षाद्व्याप्या जाति: सैव गुण त्वमित्यर्थः । यथा-विभु भवत्याकाशम्, तत्र वर्तते यो शब्दः, तद्वृत्तिः सतासाक्षाद्व्याप्याजातिर्भवति गुणत्वम् । विभुवृत्तिवृत्तिपदं यदि न दीयते तदा द्रव्यत्वादावतिव्याप्तिः । द्रव्यत्वे तु सत्तासाक्षाद्व्याप्यजातित्वं तिष्ठत्येव, परं विभुवृत्तिवृत्तित्वं नास्ति । विभुनि वर्तते यो ज्ञानादि: शब्दादिर्वा तत्र द्रव्यत्वस्याभावात् । यदि साक्षात्पदं न दीयते तदैकत्वादावतिव्याप्तिः । अथ उक्तं साक्षादिति।
ननु गुणत्वजातौ किं प्रमाणमिति चेत्, अनुमानमेव । तथाहि-'द्रव्यकर्मवृत्तिसत्तासाक्षादव्याप्यजातिभिन्नम्, जातित्वात्, घटत्ववत् ।' कर्मणि न वर्तते एतादृशी सत्तासाक्षाव्याप्या जातिः । तद्भिन्नत्वं साध्यम् । कर्मणि "न वर्तते सत्तासाक्षाद्व्याप्या जातिः । अर्थाद् गुणत्वमेव । "तद्भिन्नत्वं साध्यते द्रव्यत्वे । अत्र दृष्टान्तः द्रव्यत्वभिन्नत्वेनैव 'सिद्धः । तथा च घटत्वरूपदृष्टान्ते जातित्वरूपो हेतुस्तिष्ठति । साध्यमपि तिष्ठति । यथा-कर्मावृत्ति सत्तासाक्षाद्व्याप्याजाति भवति
१. B -काशादि.. २. B विभुत्वमित्याकाशम्. ३. A शब्दादिवर्तते तत्र. ४. B नास्ति. ५. B भिन्नत्वं-i.e. तद् is omitted. ६. B सिद्धान्तः । ७. B कर्मवृत्ति-.
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org