________________
१९६
तर्कतरङ्गिणी गुणत्वम् । तद्भिन्नत्वं च घटत्वे तिष्ठति । तथा च पक्षधर्मताबलात् गुणत्वजातिसिद्धिः । न हि द्रव्यत्वमेव द्रव्यत्वभिन्नं सम्भवति । न 'चाप्रयोजकरूपम् । अनुकूलतर्कस्य सत्त्वात् । यदि च गुणत्वं जाति न स्यात्तदा संयोगविभागोभयसमवायिकारणत्वा-समवायिकारणत्वशून्ये सामान्यवति यत्कारणत्वम्, तदनुगतधर्मावच्छेद्यं न स्यात् । यथा संयोगविभागसमवायिकारणत्वशून्यं (न्यः) भवति संयोगोविभागश्च । यद्यप्यसमवायिकारणता वर्तते तथापि तत्र 'समवायिकारणताभावेनोभयत्वावच्छित्रप्रतियोगिताकाभावसत्त्वात् । तथा चोभयनिष्ठा या कारणता, सा गुणत्वजातिव्यतिरेकेण केन धर्मेणावच्छेद्या भविष्यति ? तथा चोक्तरूपानुकूलतर्कसत्त्वात् गुणत्वजातिः सिद्ध्यतीति । (१) रूपम् ।
__शङ्कते-नन्विति -अतीन्द्रिये परमाणुरूपादौ चक्षुर्मात्रग्राह्यत्वाभावादव्याप्तिः । तद्वारणार्थं विवक्षां करोति-चक्षुर्मात्रेति चक्षुर्मात्रग्राह्या या जाति: रूपत्वलक्षणा तद्वत्त्वं रूपलक्षणमिति नाव्याप्तिः । सम्भवाभिप्रायेणेति पृथिव्यां तु पाकजं रूपम् । तत्सम्भवाभिप्रायेण तत्सम्भवतीति कृत्वा यदा पूर्वं रूपं नश्यति, रूपान्तरमुत्पद्यते तदा पाकजमेव सम्भवतीति ज्ञेयम् ।।
ननु रूपत्वं, जातिः किमर्थं स्वीकर्तव्या, चक्षुर्मात्रग्राह्यगुणत्वमेवोपाधिरस्त्विति चेत्, न । तदा रूपत्वस्यातीन्द्रियापत्तिः । तस्यातीन्द्रियचक्षुर्घटितत्वात् । उपाधिस्तु चक्षुर्घटितो जातः । तथा च चक्षुषोऽतीन्द्रियत्वे सर्वस्योपाधेरतीन्द्रियत्वं स्यात् । जात्यपेक्षयोपाधिगुरुत्वात् । सर्वजातिविप्लवापत्तिश्चेति । अतीन्द्रिये परमाणुरूपे त्वदुक्तोपाधेरसत्त्वादव्याप्ति:५ । ततः असौ जातिरेव रूपत्वमिति ।
तदेतद् शुक्लाद्यनेकप्रकारम् । पृथिव्युदकतेजोमात्रवृत्ति । पृथिवीपरमाणुष्वेव पाकजमिति वैशेषिकाः । द्वयणुकादौ तु वैः[-वैशेषिकैः] पाकजं रूपं न स्वीक्रियते कदाचित्परमाणुषु कदाचिदवयविन्यपि पाकजं रूपमिति नैयायिकाः इति ।
तथा च पार्थिवपरमाणुषु तेजःसंयोगादुत्पद्यते विनश्यति चेति पृथिव्यामनित्यमेव रूपम् । सलिलतेजः परमाणुषु रूपं नित्यमेव । द्वयणुकादिषु कारणरूपासमवायिकारणकम् । कपालादिरूपात घटादिरूपोत्पत्तिः । तत्साजात्योपलम्भात् क्वचिच्चित्रमप्यतिरिक्तं नीलपीतादिविजातीयमेवोत्पद्यते।।
नन्वेकत्रावयवनीलाद्येकमेव रूपमेककालावच्छेदनम् द्वितीयावयवे च पीतरूपम्, तदेताभ्यामुभाभ्यां परस्परविरुद्धाभ्यामवयविन्येकं रूपं कथमुत्पादनीयम्, नीलसामग्र्या नीलमेव
१. B -वाप्रयो.. २. B -कारणताभावेन सम्भवति । तथा-. ३. B नाव्याप्तिः सम्भवति । प्रायेणेति. ४. B omits च. ५. B -त्वान्नाव्याप्तिः । ६. B -च्छेदे तु द्वितीया..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org