________________
तर्कतरङ्गिणी
१९७ रूपमुत्पादनीयम् । पीतमेव रूपमुत्पादनीयमिति चेत् न । परस्परविरोधेन नीलसामग्र्या एकत्रावयविनि नीलं रूपमुत्पादयितुं न शक्यते । तत्र पीतसामग्र्याः प्रतिबन्धकत्वात् । पीतरूपस्य चोत्पत्तौ नीलसामग्री प्रतिबन्धिका । ततः उभाभ्यां मिलित्वा एकत्रावयविनि चित्रं रूपमतिरिक्तमेवोत्पादनीयम् । तत्र च रूपद्वये 'ऽत्र चित्रः पटः' 'इत्यैकरूपविषयिणी प्रतीतिर्नस्यात् । न च विरुद्धाभ्यां तत्कथमुत्पादनीयमिति वाच्यम् । तदवयवानामपि चित्ररूपवत्त्वेन विरोधाभावात् परमाणुष्वपि चित्ररूपसत्त्वात् । अग्निसंयोगात्तत्र परमाणौ चित्ररूपमुत्पद्यते । तेन द्वयणुकादावपि चित्ररूपम् । न तु यत्र त्तौ नीलमेव रूपं यत्र च पीतमेव रूपं तत्र द्वाभ्यां मिलित्वा चित्रः पटो द्वितन्तुक: उत्पादितः । तत्रापिअवयवे-तन्तौ चित्ररूपं वर्तते एव कथं नोपलभ्यते ? प्रतिबन्धस्य तत्र कालादृष्टादिविशेषस्य सत्त्वात् । अत्ररूप एव नीलादिभागस्याधिक्यादिति नोपलम्भः ।
___ न चावयविविरुद्धरूपस्थले नीलरूप एवेति "विरुद्धरूपप्रतीतिस्त्ववयवगतरूपाणामेव जायते इति वाच्यम् । तथा सत्यवयविनो चाक्षुषत्वं स्यात् । चाक्षुषत्वे च महत्त्वसमानाधिकरणोद्भूतरूपस्यैव नियामकत्वात् । न च तस्याश्रयाश्रितसम्बन्धेन द्रव्यचाक्षुष प्रत्युद्भूतरूपं कारणम्, तथा च प्रकृतेऽपि यद्यपि घटादौ रूपं नास्ति तथापि घटप्रत्यक्षं प्रति स्वाश्रयसमवेतं कपालादिरूपम्, तदेव चाक्षुषप्रत्यक्ष प्रति कारणमिति न चित्ररूपमतिरिक्तमायास्यतीति वाच्यम् । अवयविनः चाक्षुषत्वान्यथानुपपत्त्या चित्रं रूपं कल्पनीयमेव । न च स्वाश्रयाश्रितेत्यादि दूषणमिति वाच्यम् । तेन सम्बन्धेन द्रव्यचाक्षुषं प्रति कारणत्वे कल्प्यमाने गौरवापत्तिः । लाघवात् समवायसम्बन्धेनैव द्रव्यं चाक्षुषं प्रत्युद्भूतरूपं कारणम्। तथा चावयवी नीलरूपो न स्वीकर्तव्य इति । चित्ररूपमतिरिक्तं, प्रमाणं च 'चाक्षुषत्वान्यथानुपपत्तिरेव ।
ननु शुक्ल पट इत्यभेदप्रतीत्या रूपपटयोरभेदोऽस्त्वितति चेत् न । अन्धेनापि रूपग्रहणप्रसङ्गात। यतो भवतां मते रूपं पयतिरिक्तं नास्ति । पटस्त त्वचा गद्यत इति रूपानपलम्भवत द्रव्यानुपलम्भोपपत्तेश्च । नन्वधेन रूपं गृह्यत एव, रूपत्वशुक्लत्वादिकं परं न गृह्यत इति चेत्, न । यत्र व्यक्ती रूपादिका योग्या भवति तत्र रूपत्वादिजातिग्रहे प्रतिबन्धकाभावात् । किञ्च यदि 'शुक्लः पटः' इत्यभेदप्रतीतिः तदा-'शुक्लमानय-' इत्युक्तः सन् पटमानयेत्, ‘पटमानय'-इत्युक्तः किञ्चिच्छुक्लमानयेत् । अवयविनि सत्येव रूपोत्पादविनाशदर्शनात् विरुद्धधर्माध्यासादपि रूपरुपिभेदात्। यदा पीतं रूपं नष्टं नीलरूपमुत्पन्नं द्रव्ये सत्यपीदृशप्रतीतेश्चेति दिक् । (२) रसः ।
रसनेन्द्रियेति । यथाश्रुते मूलोक्तेऽगृहीत नष्टे रसेऽव्याप्तिवारणार्थं विवक्षा । यथा
१. B इत्येकविष.. २. B om its च. ३. B विशेषसत्त्वात् । ४. B omits विरुद्ध. ५. B चाक्षुषं प्रति कारणत्वे कल्प्यमानेऽन्यथा..
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org