________________
तर्कतरङ्गिणी
रसनेन्द्रियमात्रग्राह्यो यो गुणः तद्वृत्तिर्या रसनेन्द्रियमात्रग्राह्या जातिः, तद्वान् । तथा च रसत्वजातेः तत्रापि सत्त्वात् गुणपदवैयर्थ्यादिति । गुणपदं च द्रव्यादिव्यावृत्त्यर्थं देयम् । सा तु रसनेन्द्रियमात्रग्राह्यपदेनैव वारणात् । न च मनसाऽपि तद्ग्रहणात्तल्लक्षणमसिद्धमिति वाच्यम् । रसनेन्द्रियजन्यसाक्षात्कारविषय'वृत्तिगुणत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । तेजोवृत्त्यवृत्तिपृथिवीजलवृत्तिप्रत्यक्षगुणत्वसाक्षाद्व्याप्याजातिमत्त्वं वा रसत्वम् । रसनेन्द्रियजन्यो यः साक्षात्कारः, तद्विषयीभूता या गुणत्व्याप्या जातिः तद्वत्त्वं रसलक्षणम् । रसनेन्द्रियजन्यः साक्षात्कारो भवति रसत्वविशिष्टरसस्य । तत्र यथा रसो विषयो भवति तथा रसत्वमपि तद्गुणत्वव्याप्या जातिर्भवति । तद्वत्वं च रसे तिष्ठति । तथा चान्येन्द्रियजन्यत्वेऽपि रसनेन्द्रियजन्यत्वान्नदोषः । गुणत्वव्याप्यपदं च रूपादिवारणार्थम् । अन्यथा रसनेन्द्रियजन्यसाक्षात्कारविषयीभूता गुणत्वरूपाऽपि जातिर्भवति । तद्वत्त्वमादाय रूपादौ सर्वत्रातिव्याप्तिः ।
१९८
द्वितीयलक्षणार्थो यथा तेजसि वर्तते यो गुणः तत्रावृत्ति - र्यस्तत्र न वर्तते । अथ च पृथिवीजलयोर्वतते यो गुणः तद्वृत्तित्वे सति प्रत्यक्षगुणत्वसाक्षाद्व्याप्या या जातिः तद्वत्त्वं रसत्त्वम् । सत्यन्तं चैकत्वादावतिव्याप्तिवारणार्थम् । रूपादिका (वा) रणार्थं तेजोवृत्त्यवृत्तिपदम् । अन्यथा पृथिवीजलवृत्तिवृत्तित्वे सति प्रत्यक्षगुणत्वसाक्षाद्व्याप्यजातीयरूपत्वम् । तद्वत्त्वमादाय रूपमात्रेऽतिव्याप्तिः स्यात् । ततस्तेजोवृतीत्यादिदाने नातिव्याप्तिः । रूपत्वे तु तेजोवृत्त्यवृत्तित्वं नास्ति । तेजोवृत्तिवृत्तित्वस्य रूपत्वे सत्त्वात् । जलपदं च गन्धेऽतिव्याप्तिवारणार्थम् । तत्रापि तेजोवृत्त्यवृत्ति पृथिवीवृत्तिवृत्तिप्रत्यक्षगुणत्वसाक्षाद्व्याप्या जातिर्भवति गन्धत्वम् तद्वत्त्वम् । तमादाय गन्धेऽतिव्यासि: । जलपदे दत्ते तु नातिव्याप्तिः । गन्धत्वस्य यद्यपि पृथिवीवृत्त्यवृत्तित्वं वर्तते तथापि जलवृत्तिवृत्तित्वं नास्तीति । सोऽयं रसो जीवनपुष्टिबलारोग्यमरणकृशत्वदौर्बल्यकारणम् ।
(३) गन्धः ।
घ्राणमात्रेति । यथाश्रुतेति । घ्राणग्राह्योत्पन्नमात्रविनष्टे पृथिवीपरमाणुत्र गन्धादावव्यासिमाशङ्क्य' विवक्षां करोति। घ्राणमात्रग्राह्या जाति र्गन्धत्वम् । तद्वत्त्वमादाय तस्यापि सङ्ग्रह इत्य[र्थः]। न चात्रापि मनोग्राह्यत्वेन घ्राणमात्रे ग्राह्यत्वमसिदमिति वाच्यम् । घ्राणकारणकसाक्षात्कारविषयगुणत्वव्याप्यजातिमत्त्वं गन्धत्वमित्यर्थः । अयं च परमाणुष्वपि नित्य एवेत्यर्थः ।
( ४ ) स्पर्शः ।
त्वगिन्द्रियेति-त्वगिन्द्रियप्रत्यक्षे स्पर्शविशेषेऽव्याप्तिनिरासायाह-त्वगिन्द्रियमात्रग्राह्या या
१. Bomits व्याप्य. २. B रूपमादायति. ३. This प्रतीक is not found in त. भा. प्र. ४. B -दावतिव्या..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org