________________
तर्कतरङ्गिणी जातिः, तद्वत्त्वमादाय सर्वत्र लक्ष्ये लक्षणगमनात् । मात्रेति । यदि मात्रपदं न दीयते तदा त्वगिन्द्रियेण यथा स्पर्शत्वं गृह्यते तथा गुणत्वमपीति मात्रपददानम् ।
न च स्पर्शस्यापि मनोग्राह्यत्वेन त्वज्मात्रग्राह्यत्वमसिद्धमिति वाच्यम् । त्वगिन्द्रियकरणकसाक्षात्कारविषयविशेषगुणः(ण)वृत्तिस्त्रेहद्रवत्वावृत्तिजातिमत्त्वस्य विवक्षित्वात् । त्वगिन्द्रियं करणं यस्य, एतादृशो यः सः साक्षात्कारः तद्विषयीभूतो यो विशेषगुणः तद्वृत्ति र्या स्नेहद्रव्य(व)त्वावृत्तिर्जाति: तद्वत्त्वं स्पर्शत्वम् । स्नेहे द्रवत्वे चातिव्याप्तिवारणार्थं स्नेहद्रव्यत्वावृत्तिरिति पदम् । एकत्वादिवारणार्थ च विशेषगुणपदम् । रूपादिवारणार्थं त्वगिन्द्रियप्रकरणकपदम् । पृथिवी-उदकज्वलनपवनवृत्तिः । पार्थिवपरमाणुष्वनित्योऽन्यत्र नित्यः । अवयविनि कारणगुणपूर्वकः आश्रयनाश्यश्च । एतेषु गुणेषु प्रत्यक्षमेव प्रमाणम् । अतीन्द्रियरूपादौ च कार्यरूपादिकमेव प्रमाणमिति ज्ञेय[म्] ।
परमाणुस्पादीनामिति - तथा च परमाणुरूपे यद्यप्युद्भूतत्वं वर्तते तथापि महत्त्वं नास्ति। महत्त्वं चैकार्थसमवायसम्बन्धेन रूपप्रत्यक्षं प्रति कारणं बोध्यम् । चक्षुषः रूपे यद्यपि महत्त्वं वर्तते तथाप्युद्भूतत्वं नास्तीति न तत्प्रत्यक्षम् । सुवर्णरूपे तु यद्यप्येकार्थसमवायसम्बन्धेन महत्त्वमुद्भूतत्वमपि तिष्ठति, तथापि बलवत्सजातीय प्रतिबन्धकवशात्, न तत्प्रत्यक्षम् । प्रतिबन्धकाभावरूपस्य कारणस्यासत्त्वादित्यर्थः । (A) पाकजप्रक्रियानिरूपणम् ।
अथ प्रसङ्गात् पाकजप्रक्रिया निरूपिता । तत्रादौ परमाणुष्वेव पाकोत्पत्तिः, पीठरेऽपि वेति विचारः । तत्र विप्रतिपत्तिः । पार्थिवाः रूपरसगन्धस्पर्शा अग्निसंयोगजन्या न वा ? घोऽग्निसंयोगासमवायिकारणरूपवान् वाऽग्निसंयोगो घटसमवेतरूपादिजनको न वा? घटत्वमग्नि संयोगजन्यरूपसामानाधिकरण्यं न वेति विधिकोटिः ।।
प्रथमविप्रतिपत्तौ [विधिकोटिः] वैशेषिकाणाम् । तैः परमाणुष्वेव हि पाकजरूपादिकं स्वीक्रियते । द्वयणुकादौ तु परमाणुरूपादिना रूपादिज्ञानजननात् ।
द्वितीयविप्रतिपत्तौ तु विधिकोटिनैयायिकानाम् । निषेधकोटि वैशेषिकाणाम् । नैयायिकैः घटेऽग्निसंयोगेन जन्यं यद्रूपं तद्वत्त्वं स्वीक्रियते । निषेधो वैशेषिकाणाम् । तत्र पाकेनाग्निसंयोगेनावयविष्वपि रूपादिकं जन्यते इति नैयायिकाः । तेन परमाणुष्वेव पाकजा रूपादयः इति वैशेषिकाः। तत्र नैयायिकानामयमाशयः-यथाऽऽवाहनिक्षिप्तानां घटादीनां पूर्वरूपाद्'विजातीयं रूपादिकमुपलभ्यते, तत्र पाकस्यैवान्वयव्यतिरेकाभ्यां कारणत्वं दृश्यते । १. A पूर्वरूपादिविजा..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org