________________
२००
तर्कतरङ्गिणी ननु तेषामपाकस्थानानां घटादीनामापरमाण्वन्तविभागेन द्वयणुकपर्यन्तावयविनाशे' सति स्वतन्त्राः परमाणवः पच्यन्ते । अनन्तरं द्वयणुकादि प्रक्रमेण घटपर्यन्तावयविषु जातेषु सत्षु कारणगुणपूर्वकं तत्र घयदिषु रूपादय उत्पद्यन्ते । कल्पनागौरवपराहतत्वात् । द्वयणुकपर्यन्तं नाशः, घटपर्यन्तं पुनरप्युत्पत्तिकल्पनागौरवम् । किञ्च पाकादुत्तरितेषु घयदिषु स एवायं घट इति प्रत्यभिज्ञाऽपि भवन्मते न स्यात् । सर्वासु दशासु पाकक्षेपमारभ्य रूपोत्पत्तिपर्यन्तं घटस्य दर्शनं न स्यात् । भवन्मते द्वयणुकमारभ्य घटोऽन्य एवोत्पद्यते इति न युक्तम् । घयधुपरि पात्रान्तरधारणमपि तथैव दृश्यते इत्यपि न स्यात् । तथा संस्थानमपि प्राचीनमेव यथा वर्तते तथैव पाकानन्तरमुपलभ्यते । आपाकप्रक्षेपसमये रेखोपरेखादिकं च पूर्ववदुपलभ्यते । कथं द्वयणुकपर्यन्तं तन्नाशः ? सङ्ख्यापरिमाणमपि तथैवोपलम्भात्। तस्मात् घटादीनामेव पाको जायते ।
___ नन्वन्तः स्थितानामवयवानामग्निसंयोगाभावाद् पूर्वपूर्वरूपादिनाशो रक्तरूपाद्युत्पत्तिश्च न स्यात् मध्यदेशावच्छेदेनाग्निसंयोगाभावादिति चेत्, न । न्यायमते सच्छिद्रत्वादेव । तथाह्यवयविनो यावन्तः पदार्थाः ते सच्छिद्रा एव । तेन मध्यदेशावच्छेदेनाग्निसंयोगस्तेन मार्गेण तत्रास्त्येव । नन्वयविसच्छिद्रतायां किं प्रमाणमिति चेत्, न । अन्तनिहितघृततैलादिस्रवणस्य जलादिनिर्गमनस्य च तत्र प्रमाणत्वात् । ततः सच्छिद्रा एवावयविनः । अणुमात्रानुप्रवेशात् । सर्वावयवावच्छेदेन कथं पाक: स्यादिति चेत्, न । अन्तः स्थितानामपि तण्डुलानां भस्मीभावदर्शनात् बहुतेजोनुप्रवेशः स्वीकर्तव्यः । इति न्यायेन वैशेषिकमतं दूषितम् ।
. अत्र वैशेषिका:-प्रत्यभिज्ञानं च सूचिविदलनत्रसरेणुके घटादौ खण्डघटोत्पत्त्याऽवयवं (अयं ?) स घट इति प्रतीति न स्यात् । भ्रान्तम् । न च तत्र द्रव्यं न नश्यते इति वाच्यम् । आरम्भकद्रव्यसंयोगनाशस्य द्रव्यनाशकत्वात् यथा बहुलतेजोऽनुप्रवेशात् सर्वावयवाच्छेदेन पाको जायत इति । तत्स(त)दा स्यात् यदि तावत्तेजोऽनुप्रवेशेनावयवी न नश्येत् । तेजसो ह्यतिवेगवत्तया नोदनाभिघातयोरन्यतरः संयोगोऽवयवविश्लेषहेतुक्रियाजनक' इति नावयविनाशः । येनाग्निसंयोगेनानन्तः स्थितोपलादीनामपि भस्मीभावस्तेन पीठरकं न नश्यतीति महती प्रतिज्ञा । ।
तथा च तेजोऽनुप्रवेशान्नोदनाख्योऽभिघाताख्यो वा संयोग उत्पद्यते । तेन संयोगेनावयवेषु कर्म उत्पद्यते । तेनावयवानां परस्परं विभागः क्रियते । तदनन्तरं तदारम्भकसंयोगनाशः क्रियते । तेन संयोगनाशेनासमवायिकारणनाशेनावयविनाशः क्रियते । तदनन्तरं च स्वतन्त्राः परमाणवः पच्यन्ते-इति स्थिते द्वयणुकनाशमारभ्य कतिभिःक्षणैः पुनद्वयणुकमुत्पाद्य रूपादिकं भवतीति शिष्यबुद्धिवैशद्यार्थं पाकजक्रियेयं लक्ष्यते । १. B -नाशेति-. २. B अपाक-. ३. B -ग्नियोग. ४. A omits न. ५. B प्रमाणसत्त्वात् । ६. B - श्लेषक्रियाहेतुजन..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org