________________
तर्कतरङ्गिणी
२०१ (B) पाकजप्रक्रियायां क्षणविचारः ।
येन विभागजविभागो न स्वीक्रियते तन्मते नव क्षणाः । विभागजविभागाङ्गीकारमतेऽपि विभागः सापेक्ष एव विभागान्तरं जनयति । 'विभागो हि क्रियान्तरसापेक्ष एव विभागान्तरं जनयति । द्रव्यान्तरमपेक्ष्य वा विभागः जनयति । संयोगविभागयोरनपेक्षकारणं कर्मेति कर्मलक्षणावयवादिविभागेन किञ्चिदनपेक्ष्यैव विभागः संयोगश्च जन्येते । तदा विभागे कर्मलक्षणगमनात्कर्मत्वापत्तिः ।
येन च विभागजो विभागः स्वीक्रियते तन्मते दशक्षणाः । द्रव्यारम्भकसंयोगविनाशविशिष्टं कालमपेक्ष्य विभागेन विभागजननम् । तदा दशक्षणाः । यदि द्रव्यनाशविशिष्टं कालमपेक्ष्य विभागेन विभागो जन्यते तदैकादशक्षणाः ।
तथा हि पूर्वं नवक्षणमतव्युत्पादनम्-यथा वह्निनोदनादभिघाताद् द्वयणुकारम्भके परमाणौ "कर्मोत्पद्यते इति प्रथमक्षणे कर्मोत्पत्तिः । द्वितीयक्षणे तेन कर्मणा परमाणोः परमाण्वन्तराद्विभागो जायते । पुनस्तृतीयक्षणे तेन विभागेन द्वयणुकारम्भकसंयोगविनाशो जायते । तदनन्तरं चतुर्थक्षणे तेन संयोगनाशेन द्वयणुकनाश: जन्यते । पञ्चमक्षणे केवलपरमाणौ अग्निसंयोगेन श्यामादिरूपादिनाशो' जन्यते । तदनन्तरं षष्ठे क्षणे तत्रैव परमाणौ रक्तरूपाद्युत्पत्तिर्जायते । सप्तमे क्षणे रूपादिमति परमाणौ क्रिया । अष्टमे क्षणे परमाणुद्वयसंयोगः । नवमे क्षणे द्वयणुकोत्पत्तिरिति केचित् ।
अथवा नवक्षणाः-प्रथमे क्षणे रूपादिमति परमाणौ द्रव्यारम्भानुगुणा क्रिया । तया च द्वितीयक्षणेऽऽकाशादिविभागो जन्यते । तृतीयक्षणे तेन विभागेनाकाशादिपूर्वदेशेन समं परमाणोः संयोगनाशः । चतुर्थक्षणे तेन पूर्वसंयोगनाशेन द्वयणुकारम्भकीभूतसंयोगः । परमाण्वन्तरेण समं संयोगो जन्यते । पञ्चमक्षणे परमाणुद्वयसंयोगेन द्वयणुकासमवायिकारणीभूतेन द्वयणुकोत्पत्तिर्जायते । षष्ठे क्षणे द्वयणुके रूपाद्युत्पत्तिर्जायते इति षट् । द्वयणुकविनाशमारभ्य द्वयणुके रक्ताद्युत्पत्तिर्नवमे । प्रथमे क्षणे पूर्वोक्तप्रकारेण द्वयणुकनाशः । द्वितीय क्षणे परमाणुनिष्ठ पूर्व[रूप]नाशः । तृतीयक्षणे परमाणौ रूपाद्युत्पत्तिः - इति त्रयक्षणाः । एतैश्च मिलिता षडिति नव । तथा च परमाणुरूपादिना द्वयणुके रूपादिकमुत्पाद्यते । तत्त्वाग्निसंयोगादिनेति वैशेषिकाः । अवयविनि पाकानभ्युपगमात् पीलुपाकवादिन इति ।
ननु पाकेन श्यामादिनिवृत्तिक्षणे परमाणौ द्रव्यारम्भानुगुणा क्रियाऽभ्युपगम्यताम्, एतावता सप्तमेऽष्टमे वा क्षणे रक्तरूपाद्युत्पत्ति[]स्तीति चेत् न । अग्निनुन्नेऽभिहते वा परमाणौ यत्कर्म तद्विनाशमन्तरेण गुणोत्पत्तिमन्तरेण, तत्र परमाणौ क्रियान्तरानवकाशात् कर्मवति कर्मानुत्पत्तिवनिर्गुणे १. B omits the reading between विभागो..........जनयति.२. B omits वा. ३. B omits च. ४. B कर्मोद्यतने. ५. B ध्वंसो. ६. B omits इति. ७. B पूर्वत्रय क्षणाः । तर्क.-२६
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org