________________
२०२
तर्कतरङ्गिणी द्रव्यारम्भानुगुणक्रियानुत्पत्तेश्चेति । तथापि परमाणौ श्यामादिरूप निवृत्तिसमकालमेव रक्तरूपाद्युत्पत्तिरस्त्विति चेत् न । पूर्वरूपध्वंसस्यापि रूपान्तरोत्पत्तौ कारणत्वात् । कारणस्य च पूर्ववृत्तित्वादिति । अथ दशलक्षणप्रक्रिया । सा चेयम् द्वयणुकस्यारम्भकीभूतो यः क्षणः, तस्य यो विनाशः, तद्विषिष्टकालमपेक्ष्य परमाणुविभागेनाकाशादिदेशविभागो जन्यते । तदा दशक्षणाः । तथाहि-आवाहे घटनाशानन्तरं प्रथम क्षणे वह्निनोदनादभिघाताद्वा द्वयणुकारम्भके परमाणौ कर्मेति विषयः (१)। तेन च कर्मणा परमाण्वन्तरेण विभागः । द्वितीयक्षणे । (२) । तेन विभागेन तृतीयक्षणे द्वयणुकारम्भसंयोगनाशः । [३] । चतुर्थे क्षणे तेन संयोगनाशेन द्वयणुकनाशः । तस्मिन्नेव क्षणे विभागजो विभागः प्रवृत्तः । (४) पञ्चमे क्षणे श्यामरूपादिनिवृत्तिः पूर्वदेशसंयोगनाशश्च । (५) । षष्ठक्षणे रक्तरूपाद्युत्पत्ति उत्तरदेशसंयोगेश्चा । (६) तदनन्तरं सप्तमे क्षणे वह्निगोदनजन्यं यत्परमाणुनिलं कर्म तस्य विनाश: । एतन्मते पञ्चमक्षणावस्थायि कर्म । अष्टमे क्षणे तत्रैव परमाणौ अदृष्टवदात्मसंयोगाद् द्रव्यारम्भानुगुणक्रिया । (८) । नवमक्षणे पूर्वदेशेन समं विभागः । (९) दशमे क्षणे द्वयणुकोत्पत्तिः । (१०)। इति दशक्षणाः । तदनन्तरं रूपाद्युत्पत्तिः ।
अथैकादशक्षणप्रक्रिया । आवाहे घटादीनां त्रयणुकपर्यन्तं पूर्वनाशो जातः । तदनन्तरं सर्वासु प्रक्रियाषु द्वयणुकस्य कथं विनाशः ? कथं चोत्पत्तिरिति । उच्यते-पूर्व प्रथमे क्षणे वह्निनोदनाभिद्यातान्यरतरेण द्वयणुकारम्भपरमाणौ कर्म । (१) तदनन्तरं तृतीयक्षणे द्वयणुकारम्भसंयोगनाशः (२) । चतुर्थक्षणे द्रव्यनाशः । (३) । तदनन्तरं द्वयणुकविशिष्टं कालमपेक्ष्य विभागजविभागः । पूर्वदेशेन समं विभागजो विभागः । पूर्वं परमाणुनां समं विभागो वृत्तः । तेन देशान्तरेण सममिति विभागजो विभाग इति । (४) । तदनन्तरं षष्ठे क्षणे पूर्वसंयोगनाशः । (५) सप्तमे क्षणे उत्तरदेशसंयोगोत्पत्तिः । (६) । तदनन्तरमष्टमे क्षणे परमाणुकर्मनाशः । (७) तदनन्तरं नवमे क्षणे ऽदृष्टवदात्मसंयोगात्तत्रैव परमाणौ द्रव्यारम्भकानुगुणाक्रिया । (८) दशमे क्षणे ततो विभागः । (९) ततः पूर्वसंयोगनाशः (१०) । ततो द्रव्यारम्भकः संयोगः, ततो द्वयणुकोत्पत्तिः, ततो द्वयणुके रक्तरूपाद्युत्पत्तिः । [११] । इति द्वयणुकनाश विशिष्टकालमारभ्यैकादश क्षणाः । इयं पाकजप्रक्रियेति दिक् । (५) सङ्ख्या ।
सङ्ख्याप्रकरणे यथा-सङ्ख्यात्वजातिमतीत्यर्थरिति अन्यथेति । यदि मूलोक्तमेकत्वादिव्यवहारहेतुत्वं लक्षणं क्रियते तदाऽननुगमः । तथाहि-एकत्वव्यवहारहेतुत्वं तदा
१. B omits च. २. B आवाहे प्रथमे क्षणे वह्निनोदनादभिघाताद्वाघटनाशं(शा)नन्तरं व्यणुकारम्भपरमाणौ कर्मेति प्रथमः. ३. A विभाग:.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org