________________
तर्कतरङ्गिणी
२०३
द्वित्वसङ्ख्यायां नास्तीति । मिलितस्येति । यद्येकत्वादिसमूहालम्बनादिव्यवहारः हेतुत्वं क्रियते तदा प्रत्येकं नास्तीति संभव इत्यर्थः । तथा च यद्येकत्वादिव्यवहारहेतुत्वमात्रं लक्षणं क्रियते तदा व्यवहारविषयीभूते एकत्वादावतिव्याप्तिः । तद्वारणार्थं सङ्ख्यात्वघटितमिदं लक्षणं टीकाकारेण कृतमिति भावः ।
वस्तुतस्तु तदपि लक्षणं न सम्भवति । तस्य लक्षणतावच्छेदकत्वात् । सङ्ख्यायाः लक्षणत्वेन सङ्ख्यात्वस्य च लक्ष(क्ष्य) तावच्छेदकत्वात् । सङ्ख्यात्वस्यैव लक्षणेन कृतत्वात् । तथा चेदं लक्षणं बोध्यं । व्यासज्यवृत्तिवृत्तित्वे सति अव्यासज्यवृत्तित्वे सति च पृथक्त्वान्यगुणत्वव्याप्यजातिमत्त्वम् । अस्यार्थों यथा-व्यासज्यं नाम यदनेकवृत्तिधर्मः, एकपदार्थे यस्य समाप्तिर्नास्ति । यथा द्वित्वादिकम् । व्यासज्यवृत्तिधर्मो द्वित्वादिरूपो वृत्तः । तद्वृत्तित्वे सति । अव्यासज्यवृत्तिः यो धर्म एकत्वरूपो, तद्वृत्तिर्यो धर्म:, स ( ? ) वृत्ति: (तद्वृत्तित्वं) पृथक्त्वे न वर्तते । एतादृशी या गुणत्वव्याप्या जातिस्तद्वत्त्वमेव ।
सङ्ख्यालक्षणपदकृत्यं यथा - प्रथमसत्यन्तं च द्वित्त्वादावव्याप्तिवारणार्थम् । द्वितीयं सत्यन्तं चैकात्वाव्याप्तिवारणार्थम् । तत्र व्यासज्यवृत्तिवृत्तिर्भवति । द्वित्वत्वं तत्त्वे सति पृथक्त्वान्यगुणत्वव्याप्यजाति र्भवति द्वित्वत्वरूपा । तद्वत्वमेकत्वे नास्तीत्यव्याप्ति स्तद्वारणार्थं च द्वितीयसत्यन्तपदेन (दम्) । द्वित्वं चाव्यासज्यवृत्तिधर्मो न भवति । पृथक्त्वे [s] तिव्याप्तिवारणार्थं पृथक्त्वान्यपदम् । गुणत्वमादाय गुणमात्रेऽतिव्याप्तिवारणार्थं व्याप्यपदम् ।
ननु सङ्ख्यायाः द्रव्यातिरिक्तत्वे किं प्रमाणम् सङ्ख्या नास्त्येव एकत्वादिप्रत्ययस्य घटादिस्वरूपनिबन्धनत्वात् 'एको घट' इति प्रतीतिविषयस्तु घट एव नातिरिक्तः एकत्वरूपो गुण इति चेत् न । घटव्यक्तेस्तत्प्रयोगजकत्वे घटयन्तरे तत्प्रत्ययाभावप्रसङ्गात् । एतद्घटविषयत्वेन प्रतीतिः । घटयन्तरे तदनुदयात् । न च घटत्वविषयिणीयं प्रतीतिरिति वाच्यम् । घटत्वस्य तत्प्रयोजकत्वे पटादावेकत्वाभावप्रसङ्गात् । न चायं प्रत्ययो भ्रान्त इति वाच्यम् । बाधकाभावात् । तथा च नित्यत्वापेक्षायां सङ्ख्यैव निमित्तम् । द्रव्यातिरिक्ते गुणः सिद्धः प्रयोजकत्वे ।
नन्वेकत्वं जातिरेवाप्यस्तु द्रव्यमात्रनिष्ठा । भवति 'हीदमेकमिदमेकमित्यनुगतप्रत्यय एकत्वस्य । गुणत्वेऽयमेकोऽयमेक इत्यनुगतधर्मेण गुणेनानुगता प्रतीतिरेव न स्यादिति चेत् न, द्रव्यत्वान्यूनातिरिक्तवृत्तिः सा वाच्या, द्रव्यमात्रे तथा प्रत्ययात् । तथा च द्रव्यत्वाधिकरणातिरिक्ते पदार्थे सा नास्ति । द्रव्यत्वापेक्षया न्यूनेऽपि नास्ति । ततो द्रव्यत्वमेवैकत्वमिति वृत्तिः । कलशत्वघटत्वादिवत्। अन्यूनानतिरिक्तवृत्तिजातिर्नाङ्गीक्रियते । तथा च यदि जातिस्तदा द्रव्यत्वाद्यतिरिक्ता नास्तीति । अथ द्वित्वसङ्ख्याऽनित्यैव । तस्याः अपेक्षाबुद्धिजन्यत्वादित्याह - इदमिति मूलम् । १. A हीदमेवमित्यनु. २. A वृत्तः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org