________________
तर्कतरङ्गिणी
१७९ मनसो रूपाभिव्यज्जकत्वाद् व्यभिचारः स्यादित्यर्थः । सन्निकर्षे चेति - तथा च द्रव्यपदं यदि न दीयते तदा चक्षुरिन्द्रियनिरूपितरूपेण समं यः संयुक्तसमवायलक्षणसन्निकर्षः तस्यापि रूपमात्राभिव्यज्जकत्वं वर्तत एव । इति हेतुसत्त्वे साध्यं नास्तीति व्यभिचार: स्यात् । तथा च व्यभिचारवारणार्थं द्रव्यपदम् । सन्निकर्षे च द्रव्यत्वाभावान्न व्यभिचार इति भावः।
___ शब्दग्राहकत्वमिति - देहादिनेति देहस्यापि शब्दग्राहकत्वं नाम शब्दज्ञानजनकत्वम् । तथा च देहे शब्दज्ञानजनकत्वरूपो हेतुरस्ति । श्रोत्रेन्द्रियत्वं नास्तीति व्यभिचारः । यदि च शब्दज्ञानासाधारणकारणत्वमुच्यते, 'तदा शब्देन सह श्रोत्रेन्द्रियसन्निकर्षे व्यभिचारः । तत्रापि शब्दज्ञानासाधारणकारणत्वरूपो हेतुरस्ति । साध्यं च शब्दत्वं नास्तीति व्यभिचारवारणार्थमिन्द्रियत्वं द्रव्यत्वं वा हेतौ विशेषणं देयमित्याह द्रव्यत्वेत्यादि तथा च शब्दज्ञानसाधारणकारणद्रव्यत्वात् शब्दज्ञानासाधारणकारणेन्द्रियत्वाद्वा हेतुः पर्यवसन्नः इति ।
विशेषणेऽन्वयदृष्टान्तो नास्तीति सामान्यव्याप्तिमाह-सामान्यव्याप्ति मूलकार स्वयमाहयदेकमात्रेति । मनःसाधनाय प्रकारमाह-सुखाद्युपलब्धय इति । सुखेति । सुखस्य यः लौकिक: साक्षात्कार: संयुक्तसमवायसन्निकर्षजन्यः, तस्य यत्साधनं तन्मनः । यथाश्रुते चात्मन्यतिव्याप्तिः । तस्यात्मनोऽपि सुखं साक्षात्कारजनकत्वमस्त्येव । तद्वारणार्थमसाधारणपदं देयमेव । यदि लौकिकपदं न दीयते, तदा चक्षुरिन्द्रियेण तत्सुखविषयकं सामान्यलक्षणप्रत्यासत्त्याः गुणत्वरूपाया: ज्ञानं जन्यते । तदा चक्षुरिन्द्रियेऽतिव्याप्तिः । तद्वारणार्थं लौकिकपदं देयम् । सामान्यलक्षणत्वाल्लौकिकी शरीरादिनेति। अन्यथा सुखाद्युपलक्ष्यो ( लब्धयोः)ऽसाधारणकारणसाध्या इत्यत्र यद्यसाधारणपदं न दीयते तदा शरीरमादायार्थान्तरता । शरीरमेव करणं भविष्यति । मनःसिद्धि न भविष्यति । तथा च शरीरस्यासाधारणकारणत्वाभावान्नार्थान्तरता । (V) अर्थाः ।
तेनापीति तथा च यथा प्रमाणादयः पदार्थाः सर्वे यथा “यद्यपि प्रमेयमध्येऽन्तर्भव[न]ति, तथापि तत्त्वज्ञानोपयोगत्वेन पृथक् निरुपिता इत्यर्थः ।
[१७] अर्थप्रकरणे द्रव्यनिरूपणम् ॥ कार्यसमवायीति' कार्यस्य यत् समवायिकार्य निरूपितसमवायिवत् तदेव द्रव्यम् । शेषं स्पष्टम् । अत्रैवकारेति । न चैवं द्रव्याणीत्यत्र 'एव'कारो विशेष्यसङ्गतः । विशेष्यपदं द्रव्यरूपम्, तत्सङ्गत एवकारः । तथा च द्रव्यान्ययोगव्यवच्छेदरूपो योऽर्थः स एवकारेण बोध्यते । तथा च १. B तदा श्रोत्रेन्द्रियसन्निकर्षो. २. B लौकिकमिति पदं. ३. B -ऽसाधारणकरण. ४. B अद्यापि. ५. It is कार्यसमवाय in त.भा.प्र. ६. B दृष्टम् (!).
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org