________________
१७८
तर्कतरङ्गिणी (IV) इन्द्रियम् ।
कालादाविति - तस्यापि कालस्यापि व्यापारवत्त्वेन शरीरेन्द्रियसंयोगवत्त्वेनेन्द्रियापत्तिः । कालस्य 'जगदाधारत्वात् । दूषणान्तरमपीन्द्रियलक्षणे ददाति-सन्निकर्षेति - अन्यथा ज्ञानकारणमतीन्द्रियमित्युच्यमाने इन्द्रियसन्निकर्षेऽतिव्याप्तिः । इन्द्रियसन्निकर्षस्यापि ज्ञानकारणत्वे सतीन्द्रियत्वात् । तद्वारणार्थं संयुक्तेत्यादिकमेव वक्तव्यम् । न तु तद्वारणार्थं शरीरपदमपि देयमि न्द्रियसन्निकर्षस्य तु संयुक्तपदेनैव वारणादित्वाशङ्कार्थ
स्वयमिन्द्रियलक्षणमाह-स्मृत्यजनकेति स्मृत्यजनको यो ज्ञानकारणीभूतो मनःसंयोगः तदाश्रयत्वमिन्द्रियत्वम् । यथा चक्षुषि स्मृत्यजनकीभूतो ज्ञानकारणीभूतो मनःचक्षुसंयोगः तदाश्रयत्वं चक्षुषि मनसि च तिष्ठति । स्मृत्यजनकेतिपदं आत्मन्यतिव्याप्तिवारणार्थम् । अन्यथाज्ञानकारणमनः संयोगाश्रयत्वमात्मनोऽपि तिष्ठति । आत्मन्यपि मनःसंयोगस्य सत्त्वात् ।
ज्ञानकारणेति - पदकृत्यं यथा घटादेरिति - अन्यथा स्मृत्यजनको यो मनःसंयोगः पण्डमनः संयोगः, तदाश्रयत्वं घटादेरप्यस्तीति तद्वारणार्थं ज्ञानकारणेति पदम् ।
तदसाधारणेति -गन्धस्य यदि साधारणमुपलब्धिकारणं तदेव घ्राणम् । मनसस्तु साधारण्येन ज्ञानकारणत्वमिति न तत्रातिव्याप्तिः । गन्धग्राहकत्वमिति तथा च-'घ्राणेन्द्रियं गन्धवत्, गन्धोपलब्धिमात्रसाधनत्वात्', घटवत्' । मात्रपदं मनसि व्यभिचारवारणार्थम् । सम्पूर्णोऽपि हेतुः । घ्राणेन्द्रियेण सह गन्धस्य य: संयुक्तसमवायः तत्र व्यभिचारवारणार्थं प्रकारान्तरं वक्ष्यमाणमाहअनुमानं चेत्थमिति सामान्यत इति । अन्वयव्याप्तौ दृष्टान्ताभावात् व्यतिरेकव्याप्तिरेवेत्यर्थः ।
मध्यान्तमिति - रूपादिषु पञ्चसु मध्य इति रूपत्वादीनां प्रति चक्षुरादीनामभिज्जकसत्त्वात्। तथा च मध्यपदानुपादाने एवकारार्थो न सम्भवतीति मध्यपदग्रहणम् । ननु रूपादिषु पञ्चसु मध्ये इति पदस्याप्रसिद्धिवारकत्वेन व्यर्थतां शङ्कते अप्रसिद्धवारकमिति तथा च चक्षुरिन्द्रियस्य रूपमात्रमभिव्यज्जकत्वं नास्ति । रूपत्वस्याप्यभिव्यज्जकत्वात्-इत्यप्रसिद्धः । रूपमात्रस्य ज्ञानजनकं किमपि नास्ति । चक्षुषा रूपत्वघटदेरपि ज्ञानं जन्यते । ततो रूपमात्राभिव्यञ्जकमप्रसिद्धम् । तद्वारणार्थं च रूपादिषु पञ्चसु मध्ये इत्युक्तम् । तथा च व्याप्तिग्रहोपायिकत्वेन यथा व्यभिचारवारकं पदं सार्थक भवति तथा च प्रसिद्धवारकं पदमपि सार्थकं भवति । तथा च यथाऽऽश्रयासिद्धिवारणार्थं व्याप्तिग्रहोपायिकत्वेन दत्तं पदं सार्थकं भवति तथा च स्वरूपासिद्धिवारणार्थमपि पदं सार्थकं भवति । प्रकृते तु मध्यान्तपदानुपादाने स्वरूपासिद्ध एव हेतुः स्यात् । तद्वारणार्थं मध्यान्तपदोपादानम् । एतदेव मनसि कृत्वाऽऽह-अप्रसिद्ध वारकमिति - नियमेति । रूपस्यैवेति । नियमो यदि न दीयते तदा १. B जगदाधारात्. २. B omits मात्र. ३. B omits the reading between तथा च............शङ्कते.
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org