________________
तर्कतरङ्गिणी
१७७ पृथिवीत्वादिनेति - यदि मात्रपदं न दीयते तदा पृथिव्यादावतिव्याप्तिः । प्रयत्नकारणीभूतो भवति शरीरमनःसंयोगः । तदाश्रयीभूतं भवति शरीरम् । अन्त्यावयविवृत्तिर्जातिस्तवृत्तिशरीरवृत्तिः भवति पृथिवीत्वम् । तद्वत्त्वं पृथिवीमात्रे तिष्ठतीत्यतिव्याप्ति । एवं जलत्वद्रव्यत्वादिकमादायातिव्याप्ति र्बोध्या । मात्रपदे दत्ते तु पृथिवीत्वादिकं चान्त्यावयविमात्रवृत्ति न भवति । तस्य कपालद्वयादावपि वर्तमानत्वात् । पण्डेति स्पष्टम् ।
ननु शरीरत्वं न जातिः, जातिसाङ्कर्यात्, तथाहि, पृथिवीत्वादिनेति चेत्, न । जातिशब्देनात्रोपाधिविवक्षितः । अथवा शरीरत्वं जातिरेव । सुखकारणतावच्छेदकत्वेन जातिसिद्धिः । न च जातिसाङ्कर्यमिति वाच्यम् । जातिसङ्करस्तु दोषस्तत्र भवति यत्र च [न ?]कोऽपि अनुकूलतर्को भवति । यथा भूतत्वमूर्तत्वस्थले । प्रकृते च कार्यकारणभाव एवानुकूलतर्कस्तिष्ठति । यदि चानुकूलतर्के कार्यकारणभावे विद्यमाने जातिसाङ्कर्याज्जाति न सिध्यति तदा 'पृथिवीत्वादेरपि जातित्वं न सिध्येत्। शरीरत्वेन समं पृथिवीत्वस्यापि सङ्करात् । तत्र यदि कार्यकारणभावरूपानुकूलतर्केण पृथिवीत्वरूपा जाति र्गन्धासमवायिकारणतावच्छेदकत्वेन स्वीक्रियते तदा प्रकृतेऽपि सुखादिकारणतावच्छेदकत्वेन शरीरत्वं जातिः सिद्ध्यतीति । तथा चोभयत्र विनिगमनाविरहा(त)जातिस्त्वस्तीति दिक् । भूतत्वजातिसाधनेऽनुकूलतर्कः कोऽपि नास्ति । तेन मूर्तत्वेन समं सङ्करः । मूर्तत्वं च जातिरेव । स्यन्दसमवायिकारणताऽवच्छेदकत्वेनेति ज्ञेयम्।
चेष्टावदिति - चेष्टावति वृत्तिर्याऽन्त्यावयविमात्रवृत्तिर्जाति भवति, तद्वत्त्वं शरीरत्वम् । मृतशरीरसंग्रहार्थमिदम् । यथा चेष्टावति शरीरेऽन्त्यावयविमात्रवृत्तिर्जातिः, शरीरत्वं तद्वत्त्वं च शरीरमात्रे वर्तते इति कृत्वा तदपि लक्षणमेव । मात्रपदं च घटादावतिव्याप्तिवारणार्थम् । तत्रापि पृथिवीत्वजातिसत्त्वात् । अन्त्यावयिवपदं च हस्ताद्यवयवेऽतिव्याप्तिवारणार्थम् । जातिघटितं च लक्षणं मृतशरीरसंग्रहार्थम् । अत्र चेष्टाश्रयं शरीरमिति शरीरलक्षणे कृते घटदावतिव्याप्तिः । तत्रापि चेष्टाशब्देन क्रिया तदाश्रयत्वं घटादावप्यस्तीति मूलकारोऽन्यथा व्याचष्टे-चेष्टत्वेति -न त्विति तथा चोक्तक्रियाश्रये घटादौ हिताहितप्राप्तिरिहारौ न सम्भवतः । तयोरात्मधर्मत्वात् । क्रियान्तरेणेष्टसाधनतारे ज्ञानरूपेणाहितमनिष्टसाधनताऽज्ञानरूपेणाहितम् । ततो यथा घटादौ तौ सम्भवतः तथा शरीरेऽपि न सम्भवति (त:) इत्याशङ्कार्थः । चेष्टात्वं जाति: शरीरनिष्ठकर्मवृत्तिः कर्मत्वव्याप्याजातिः । अथवा चेष्टात्वमुपाधिरित्याह-प्रयत्नवदिति - प्रयत्नवानात्मा, तस्य संयोगः आत्ममनःसंयोगः स एवासमवायिकारणं यस्यां क्रियायाः, त[व]त्त्वमेव चेष्टात्वम् । एवं च शरीरनिष्ठा या क्रियाचेष्टा, तां प्रत्यात्ममन:संयोगोऽप्यसमवायिकारणं भवतीत्यर्थः । एवं चेष्टात्वं क्रियात्वव्याप्यजातिविशेष उपाधिविशेषो वा । १. B अष्टपृथिवीत्वा.. २. B पूर्वमत्र. ३. B -साधनतारूपेणाहि. ४. B omits च. तर्क.-२३
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org