________________
१७६
तर्कतरङ्गिणी कस्याप्यनुभवो नास्ति । तदा गुणत्वसाक्षाद्व्याप्यत्वं न दातव्यमेव, किन्तु गुणत्वव्याप्यजातिमत्त्वमेवेति ।
तथा च सुखदुखोभयनिष्ठ एकोऽनुगतो धर्मः समानीतः । तेन धर्मेण तथाविधोऽनुभवो वाच्यः । अथवा लाघवात् सुखदुःखान्यत्वमेवानुगतो धर्मो ग्राह्यः । अथवा सुखत्वाभाव विशिष्टदुःखत्वाभावाभावरूपोऽनुगतो धर्मः । अयं च धर्मो विशिष्टाभावरूप: सुखदुःखोभयनिष्ठ एवेति ध्येयम्। (III) शरीरम् ।
शरीरावयव इति शरीरस्य लक्षणं मूलकृता कृतम् । यदवच्छिन्नोऽऽत्मनि सुखदुःखान्यतरानुभवो जायते तदेव शरीरमिति । शरीरावयवे 'हस्तादावतिव्याप्तं हस्ताद्यवच्छेदेनापि सुखदुःखाद्यनुभवात् । तद्वारणार्थमन्त्यावयवपदम् । तथापि मृतशरीरमन्त्यावयवित्वं वर्तते । कार्यद्रव्यानारम्भकत्वात् । परं तदनवच्छेदेन भोगो न जाय[ते] इत्यव्याप्तिः । न चेति - प्राक्कालावच्छेदेन तस्यापि भोगायतनमस्तीति नाव्याप्तिरित्युद्धारः । तथाप्यव्याप्ति दृढयतिपरिणामभेदेनेति । तथा च मृतशरीरस्य प्राक्कालावच्छेदेनापि भोगायतनत्वं नास्त्येव । पूर्वकालीनशरीरापेक्षया मृतशरीरस्य भिन्नत्वात् । तत्र हेतुपरिणामभेदेन कार्यभेदस्वीकारात् । ततो मरणोत्तरक्षणे मृतशरीरं परिमाणा(णामा)न्तरेणोपचितं वा भविष्यतीति । तत्र भोगायतनत्वाभावादव्याप्तिरेवेत्याशङ्कार्थः ।
विवक्षां करोति-प्रयत्नेति प्रयत्नस्य कारणीभूतो यो मन:संयोगस्तवृत्तिर्वर्तते या जाति: सैवान्त्यावयविमात्रवृत्तिर्या जातिः, तद्वत्त्वं शरी[र] लक्षणम् । प्रयत्नकारणीभूतो मन:संयोगःशरीरमनःसंयोगः तदाश्रयीभूतं भवति शरीरम्, तद्वृत्तिर्या जातिः शरीरत्वलक्षणं', सा चान्त्यावयविमात्रवृत्तिरपि भवति । तद्वत्त्वं शरीरमात्रे तिष्ठतीति लक्षणार्थः ।
ननु मनस्यव्याप्तिरिति चेत्, न । अन्त्यावयविपदेनैव तस्य वारणात् । मनसोऽवयवित्वाभावात् । मृतशरीरेऽपीदं लक्षणं गच्छति । तत्साधारण्यार्थमेवेयं विवक्षा । प्रयत्नकारणीभूतोऽस्मदादिशरीरमनः संयोगः । तदाश्रयोऽस्मदादिशरीरम् । तद्वृत्तित्वे सत्यन्तावयविमात्रवृत्तिर्जाति भवति । य[त्]शरीरत्वं यथाऽऽस्मदादिशरीरे वर्तते तथा मृतशरीरेऽपि शरीरत्वजातिसत्त्वात् साधारण्यम् ।
घटादाविति प्रयत्नकारणीभूतमन:संयोगवत् वृत्तीति भागो घटादावतिव्यासिवारणार्थम् । अन्त्यावयविमात्रवृत्तिर्जातिर्घटत्वरूपा तत्राप्यस्तीत्यतिव्याप्तिः । यद्यपि पण्डमन:संयोगो घटादिषु वर्तते तथापि सः प्रयत्नकारणीभूतो न भवतीति । १. B -निष्ठ. २. B omits हस्तादावतिव्याप्त. ३. B तद्वत्तं. ४. B शरीरलक्षणा. ५. B शरीरलक्षणे.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org