________________
तर्कतरङ्गिणी
१७५
सुखदुःखानुगमं कृत्वा, 'तदीयो सुखदुःखीयो यो लौकिकसाक्षात्कारः स एव भोग इति भोगलक्षणम् ।
तथा च प्रकृते साक्षात्कारसामग्री सुखदुःखस्वरूपा । एतत्साक्षात्कारं प्रति विषयत्वेनानयोरपि कारणत्वात् । तस्यां सामग्र्यां निविष्टो यो पदार्थः विषयतारूप:, तन्निष्ठो यो धर्मः विषयतारूप:, तद् व्याप्या योत्पत्तिः सुखदुःखयोः साक्षात्कार' विषयनिष्ठा यथा यत्र यत्र सुखदुःखनिरूपितविषयत्वं तत्र तत्र विषयत्वसम्बन्धेन सुखदुखयोः साक्षात्कारोत्पत्तिः । इयमुत्पत्तिः सुखदुःख निष्ठा (ष्ठ) ज्ञानस्योत्पत्तिः ।
तथापि या गुणत्वसाक्षाद्व्याप्या जातिः सुखदुःखत्वरूपा तद्वित्वेन सुखदुःखयोरनुगमः । तथा चानेन रूपेण सुखदुःखयोलौकिकसाक्षात्कारः सुखदुःखानुभवो मानसरूपो स एव भोग इत्यर्थः ।
लौकिकेति यदि लौकिकपदं न दीयते तदाऽतीतं यद् सुखदुःखादिकं तदनुभवोऽपि भोगः स्यात् । तस्यापि ज्ञाने(नं) सामान्यलक्षणप्रत्यासत्तिप्रवृत्त्या वर्तते इति तद्वारणार्थं लौकिक पदम् । तथा च लौकिकसन्निकर्षजन्यो यः साक्षात्कार [रूप: ] पक्ष: [स] एव सुखदुःखविषयको ग्राह्यः । सुखादिति तथा च साक्षात्कारसामग्रीनिविष्टता व्याप्योत्पत्तिमत्त्वमात्रेणैव यद्यनुगमः क्रियते तदा ज्ञानविशेष्टोऽतिव्याप्ति र्भवति । यथा कस्यचिद् घटविषयकं ज्ञानं जातं यथा घटोऽयमिति तस्य च सामग्री घटोऽपि भवति । तन्निविष्टो धर्मो घटनिरूपितविषयितारूपो घटविषयकज्ञाने, तस्य व्याप्या योत्पत्तिः एतज्ज्ञाननिष्ठैव । तथा चैतत्ज्ञानस्याप्यनेन धर्मेणानुगमो वृत्तः । तेन यथा सुखदुःखानुभवो भोगो भवति तथा एतज्ज्ञानानुभवोऽपि भोगः स्यात् । तद्वारणार्थं व्याप्यगुणत्व साक्षाद्व्याप्यजातिमत्त्वम् । तथा चैतज्ज्ञानत्वं तु गुणत्वसाक्षाद्व्याप्या जाति र्न भवति ज्ञानत्वरूपा तस्य तथा चानेन द्वितीयभागेन ज्ञानविशेषवारणं वृत्तम् ।
ननु गुणत्वसाक्षाद्“व्याप्यत्वं कस्य विशेषणम्ः यद्युच्यते उत्पत्तेः, तदाऽसम्भवः; यथोत्पत्तेर्घयदावपि वर्तमानत्वात्, यत्र च गुणत्वसाक्षाद् व्याप्यजातिमत्त्वं नास्ति । ततो गुणत्वसाक्षाद्व्याप्यत्वमुत्पत्तिव्याप्यजातेर्विशेषणम् । 'सुखदुःखनिष्ठैव ज्ञानस्य योत्पत्तिस्तस्यां व्याप्या या जातिस्तस्यां विशेषणम् । तथा च प्रतिशरीरं विजातीयं ज्ञानमुत्पद्यते । यत्र शरीरं विशेष्ये सुखघटादिसमूहालम्बनात्मकं ज्ञानं वृत्तम्, तद्विषयता यथा सुखे वर्तते तथा घटेऽपि वर्तते । तद्व्याप्योत्पत्तिः सुखघटनिष्ठा, तद्व्याप्या या जातिः, सुखत्वं घटत्वं वा तदवच्छिन्नानुभवो भोग इति पर्यवसन्नम् ।
तदा घटविषयकज्ञानेऽपि अतिव्याप्तिरेवेति । तद्वारणार्थं गुणत्वसाक्षाद्व्याप्यत्वं जातेर्विशेषणं न तूत्पत्तेः । एतदुपरि शङ्कते - यदीति एतादृशं ज्ञानं नोत्पद्यते । यथाऽहं सुखी तथाऽहं घटीतिः १. B तदा. २. B साक्षात्कारनिष्ठा. ३. B यथा ४. B साध्यव्याप्या ( ? ) - ५ B सुखदुःखेति तथैव ज्ञानस्य. ६. B विशेषणं कृत्यं न तू. ७. A omits ऽहं.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org