________________
१७४
तर्कतरङ्गिणी प्रत्यक्षगुणत्वव्याप्यजातिमत्त्वाभावात् । तत्र गुणत्वाभावेन तद्व्याप्यजातिमत्वाभावात् । न च धर्मादाविति धर्माधर्मादौ प्रत्यक्षगुणत्वव्याप्या जाति स्ति । धर्मत्वाधर्मत्वयोरप्रत्यक्षत्वात् 'भागासिद्धिः । पक्षैकदेशे हेतोरभावादित्यर्थः । अपक्षत्वादितः तथा च बुद्ध्यादीनामिच्छान्तानामेव पक्षत्वमत एव सिद्धम् । बुद्ध्यादयो विशेषगुणाः, प्रत्यक्षगुणत्वव्याप्यजातिमत्त्वे सति द्वीन्द्रियग्राह्यगुणत्वव्याप्यजातिरहितत्वात्, रूपवदिति । बुद्ध्यादीनामनेनानुमानेन विशेषगुणत्वं सिद्धम् । इतः परं कैश्चित द्रव्याश्रितत्त्वं बुद्ध्यादीनां साध्यते । इत्याह-प्रयोगश्चेतीति । अत्रेति अनुमानखण्डे व्यतिरेकग्रन्थे यथा बुद्ध्यादयः । इत्यनुमानेन किञ्चिद् द्रव्यं बुद्ध्यादीनामाश्रयत्वेन सिद्धम् । तदेव पक्षः ।
तथा च तद्रव्यमष्टद्रव्याणि पृथिव्यादिमनःपर्यन्तान्यात्मानं विहाय-तदतिरिक्तत्वं पृथिव्याद्यष्टद्रव्यतिरिक्तत्वम् । तत्र बुद्धाश्रय साध्यते । केन ? तदवृत्तित्वरूपेण हेतुना । तथा च'बुद्ध्याश्रयीभूतं द्रव्यमष्टद्रव्यातिरिक्तम्, तदवृत्तित्वरूपेणाष्टद्रव्यावृत्तिधर्मवृत्तित्वात्; गुणवत् ।' गुणे हि अष्टद्रव्यावृत्ति गुणात्वरूपधर्मत्वं वर्तते । अष्टद्रव्यातिरिक्तत्वरूपं साध्यमप्यस्ति । तथा चानेनानुमानेनाष्टद्रव्यातिरिक्तं द्रव्यं सिद्धम् । द्रव्यत्वेन रूपेणेदानी व्यतिरेक्ययनुमानेनात्मप्रकारकबोधविषयीभूतं द्रव्यं साधयति । तदाश्रितेति-आत्माश्रितत्वम् । तथा च मूले प्रयोगः । यथा हेतुःयथा पृथिव्याधष्टद्रव्याश्रितत्वे सति गुणत्वात् । सत्यन्ततादाने रूपे व्यभिचारः । रूपत्वादौ व्यभिचारवारणार्थं गुणत्वादिति भावः । शब्दसाम्येने]ति अन्वयव्यतिरेकिकेवलव्यतिरेकिणोः शब्दसाम्यं पञ्चम्यादिरूपम् ।
गौरवमिति तथा चात्मनो यदि मध्यमं परिमाणवत्त्वं तदाऽनेन हेतुनाऽनित्यत्वं - एतदेव गौरवमित्यर्थः ।
एवं 'चात्मनि उत्पत्तिः कल्पनीया । समवायिकारणादिकल्पनायां गौरवमिति भावः । एकस्मिन्निति - तथैकस्मिन्नेवात्मनि एकस्मिन्नेव काले सुखदुःखयोरनुत्पादेनानयोरेककालावच्छेदेनानुभवो न सम्भवतीति' । (II) शरीरलक्षणे भोगः ।
यथाश्रुतं मूलोक्तं भोगलक्षणं न सम्भवतीति टीकार्थः । यधुच्यते 'एकतरानुभवो भोगः' इति, तदा च प्रत्येकमव्याप्तिः । तथा चोभयथाऽपि मूलोक्तं भोगलक्षणं दुष्टमेवेति मनसि कृत्वाऽन्यथा भोगलक्षणं करोति-साक्षात्कारसामग्रीति साक्षात्कारस्य या सामग्री, तत्र निविष्टो यो पदार्थः, तन्निष्ठो यो धर्मो निविष्टितरूपः, तद्व्याप्या योत्पत्तिः, तद्व्याप्या या गुणत्वव्याप्या जातिः, "तद्वयेन धर्मेण
१. B भागासिद्धेः । २. A चात्मनः. ३. B omits इति. ४. B सा द्वयेन.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org