________________
तर्कतरङ्गिणी
१७३
वर्तमानत्वात् । तिष्ठति चायं पक्षे बुद्ध्यादौ विशेषगुणे । द्वीन्द्रियग्राह्यो भवति गुणः एकत्वादिः । तन्निष्ठा गुणव्याप्या जातिर्भवति एकत्वरूपा । तद्राहित्यं बुद्धौ वर्तते । बुद्धेरेकत्वाभावात् । व्याप्यपदं चेन्न दीयते तदा स्वरूपासिद्धो हेतुः स्यात् । द्वीन्द्रियग्राह्य-गुणत्वजातिराहित्यमित्येव हेतुः क्रियते, तदा पक्षे बुद्ध्यादौ हेतु र्नास्तीति स्वरूपासिद्धः स्यात् । तद्वारणाय व्याप्यपदम् । तथाहि - द्वीन्द्रियग्राह्यगुणो भवति सङ्ख्यादिकम् । तन्निष्ठतया गुणत्वरूपा जातिः । तद्राहित्यं बुद्ध्यादौ नास्तीति स्वरूपासिद्धः स्यात् । व्याप्यपददाने न भवति । गुणत्वं च गुणत्वस्याव्याप्यं न भवति । यद्यपि भेदेनापि व्याप्यव्यापकभावः सम्भवति तथापि भेदेनात्र व्याप्यव्यापकभावस्य विवक्षणात् । तथा च द्वीन्द्रियग्राह्यगुणत्वव्याप्यजातिर्भवत्येकत्वादिरूपा, न गुणत्वरूपा' । तद्राहित्यस्य बुद्ध्यादौ
वर्तमानत्वादिति ।
एवं चेति द्वीन्द्रियग्राह्यगुणत्वव्याप्यजातिराहित्यरूपे हेतौ कृते गुरत्वे व्यभिचारः २ । एतादृशहेतुत्वे विशेष्यगुणत्वरूपसाध्यसत्त्वे व्यभिचार इत्यर्थः । प्रत्यक्षत्वे इति तथा च प्रत्यक्षत्वे सति द्वीन्द्रियग्राह्यगुणत्वव्याप्यजातिरहितत्वादिति पर्यवसन्नो हेतुः । गुरुत्वं च न प्रत्यक्षम् । न चेश्वरेति ईश्वरबुद्ध्यादौ हेतुर्नास्ति । तस्य प्रत्यक्षत्वाभावादिति भागासिद्धि ।
"
समाधत्ते - प्रत्यक्षेति प्रत्यक्षा या गुणत्वव्याप्या जातिः, ज्ञानत्वं तत्त्वं तत्त्वे सति द्वीन्द्रियग्राह्यगुणत्वव्याप्यजातिराहित्यत्वादिति हेतुः पर्यवसन्नः एवं सति गुरुत्वे न व्यभिचारः । तत्र यद्यपि द्वीन्द्रियग्राह्यगुणत्वव्याप्यजातिराहित्यं विशेष्यदलं तिष्ठति तथापि प्रत्यक्षगुणत्वव्याप्यजातिमत्त्वं गुरुत्वे नास्ति । गुरुत्वस्याप्रत्यक्षत्वात् ।
एवं चेश्वरबुद्धावपि भागासिद्धिर्न भवति । तत्र प्रत्यक्षगुणत्वव्याप्यजातिमत्त्वे सति द्वीन्द्रिग्राह्यगुणत्वव्याप्यजातिरहितत्वं हेतुस्तिष्ठति । साध्यमपि विशेष्यगुणत्वं तिष्ठति । ईश्वरबुद्धौ च प्रत्यक्षगुणत्वव्याप्यजातिर्ज्ञानत्वरूपाऽस्ति । भागासिद्धिर्नाम पदस्यैकेदेशे हेतोरवर्तनमिति ।
ननु प्रत्यक्षगुणत्वव्याप्यजातिमत्त्वादित्येव हेतुः, कर्तव्य इति चेत्, न । तथा सति संयोगादौ व्यभिचारः स्यात् । संयोगे प्रत्यक्षगुणत्वव्याप्य जाति संयोगत्वं वर्तते । तत्र विशेष्यगुणत्वरूपं साध्यं नास्तीति व्यभिचारः स्यात् । "तद्वारणाय द्वीन्द्रियेत्यादि न विशेष्यदलम् । संयोगस्यापि द्वीन्द्रियगुणग्रहणयोग्यतावत्त्वात् । तथा च तत्र न व्यभिचारः ।
एवं गुणत्वेति मूले च गुणत्वे इति विशेषणं दत्तमस्ति तदपि न दातव्यम् । तद् दानं च घटादौ व्यभिचारवारणार्थम् । प्रत्यक्षेत्यादि घटादौ व्यभिचार एव न भवति । तत्र १. B गुणत्वारूपा. २. Bomits व्यभिचारः । ३. B – संयोगत्वरूपत्वं. ४. B omits the reading between तद्वारणाय.... विशेष्यदलम्.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org