________________
१७२
तर्कतरङ्गिणी परिशेषानुमानेनात्मरूपमदृष्ट(मष्ट)व्यतिरिक्तं द्रव्यं सिध्यतीति । तथा च गुणिनो गुणेनानुमानं कर्तव्यम्।
तत्रायं शङ्कते-नन्विति । गुणगुणिनोरसमानाधिकरणत्वाद् परस्परं व्याप्तिरेव नास्ति । यथा घटरूपं भवति गुणः, घटो भवति गुणी । अनयोः सामानाधिकरण्यं नास्ति । घटे रूपमस्ति घटस्तु कपाले इत्यर्थः।
गुणश्चेति । तथा च गुणो गुण्याश्रितो गुणत्वात् । रूपादिवत् । इदं 'युक्तमनुमानम् । परमिदं पूर्वोक्तमयुक्तम् । - आत्मा गुणी गुणात् । इत्येवमुक्ते समानाधिकरण्यं भवत्येवेति । भूतसाबन्धित्वेति। अत्र बुद्ध्यादीनां पक्षत्वम् । तत्तु पक्षे गुणस्याप्यन्तर्भावः । तथा च न कर्तव्यमेव । यथा बुद्ध्यादिगुणा न भूतगणाः इति न कर्तव्यम् । बुद्ध्यादिगुणा इति कृते बुद्ध्यादिकं पक्षतावच्छेदकं भवति । पक्षस्तु गुणा इत्येव । तथा कृते गुणेषु भूतसम्बन्धित्वेन भूतसम्बन्धित्वनिषेधः कर्तुमशक्यः । इति बुद्धादय इत्येव पक्षः ।
मानसमिति । यथा घटदिरूपे प्रत्यक्षत्वं तिष्ठति तत्र भूतगुणत्वाभावकरूपं नास्तीति व्यभिचारः स्यात् । तद्वारणाय मानसपदम् । तेनेति चाक्षुषं यत्प्रत्यक्षं तन्मनोजन्यमपि भवतीति व्यभिचारवारणाय मानसप्रत्यक्षत्वादिति मनोमात्रजन्यप्रत्यक्षत्वं नास्ति ।।
बुद्ध्यादीनां भूतगुणत्वं निषेध्य दिगदिगुणत्वं दूषयति । नापीति मूलम् । अविशेषगुणेति। यत्र विशेषगुणत्वं तत्र दिगादिगुणत्वं नास्ति । दिगादिषु च सामान्यगुणा एव । तथा च बुद्ध्यादीनां विशेषगुणत्वेन न दिगादिगुणत्वम् । विशेषगुणत्वं चैकेन्द्रियमात्रग्राह्यत्वम् । मात्रपदं चैकत्वादीनां विशेषगुणत्ववारणार्थम् । अन्यथैकत्वसङ्ख्यायां द्वीन्द्रियग्राह्यत्वेऽप्येकेन्द्रियग्राह्यत्वसत्त्वादतिव्याप्तिः स्यात् ।
बुद्ध्यादीनां विशेषगुणत्वं साधयति गुणत्व इति मूलम् । तदपीति जातमात्र विनष्टघटसङ्ख्यां चक्षुर्मात्र गृहीतत्वादिति व्यभिचारो न स्यात् । तथाऽऽह इन्द्रियग्रहणेति । प्रभासङ्ख्यायामिति प्रभासङ्ख्या एकत्वादिरूपा । अस्यायमर्थः-मनोमात्रजन्यप्रत्यक्ष्त्वादिति रूपादौ विवक्षां करोति-द्वीन्द्रियेति-द्वीन्द्रियग्राह्यो गुणः, तद्गता या गुणत्वव्याप्या जातिः, तद्राहित्यम् । तथा च गुणत्वाव्याप्या जाति: एकत्वादिः, तद्राहित्यं बुद्ध्यादौ मनोमात्रग्राह्यत्वात् । तथा च सङ्ख्याविशेषे प्रभैकत्वादौ न व्यभिचारः । तत्र द्वीन्द्रियग्राह्यत्वं- यो गुणः घटैकत्वादिः तन्निष्ठागुणत्वव्याप्या जातिरेकत्वरूपा, तद्राहित्यरूपो हेतुः प्रभैकत्वे नास्ति । तथा च प्रभैकत्वे यथा विशेषगुणत्वं साध्यं नास्ति तथा हेतुरपि द्वीन्द्रियग्राह्यनिष्ठगुणत्वव्याप्य जातिराहित्वं नास्ति । द्वीन्द्रियग्राह्यगुणो भवति घटैकत्वादिः । तनिष्ठा या गुणत्वव्याप्या जातिरेकत्वरूपा, तद्राहित्यं प्रभैकत्वे नास्ति । तत्रैकत्वस्य १. B प्रयुक्तम्.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org