________________
तर्कतरङ्गिणी
१७१ व्यासज्यवृत्तिधर्मावच्छिनप्रतियोगिताकाभावोऽयं तिष्ठतीति उक्तघट विशेषे न व्यभिचार इत्याशङ्कार्थः ।
एकेन्द्रियग्रहणेति-तथा च प्रत्यक्षत्वे सति द्वीन्द्रियग्रहणयोग्यतारहितत्वादिति हेतुः । विशेष्यदलं तु घटदावतिव्याप्तिवारणाय । सत्यन्तं च द्वयणुकादौ व्यभिचारवारणाय । व्यभिचारमुद्धरति एकेन्द्रियते' - तथा च यद्यपि घटे एकेन्द्रियग्रहणयोग्यता वर्तते तथापीन्द्रियद्वयग्रहणयोग्यताविरहो नास्तीति । घटादौ यथा साध्यं नास्ति तथा हेतुरपि तत्र नास्तीति भावः । एकेन्द्रियग्रहणयोग्यता कुत्रापि नास्ति मनसोऽप्यतीन्द्रियत्वात् ।
समाधत्ते-एकेन्द्रियग्रहणेति यद्यपि द्वित्वावच्छिनः प्रतियोगिताकोऽभावो नास्ति तथापि विशिष्टाभावो वाच्यः । तथा चैकेन्द्रियग्रहणयोग्यता विशिष्टत्वापरेन्द्रियग्रहणयोग्यता, तस्याः अभावः । अयमभावो विशिष्टाभावो भवति । तथा च व्यभिचारो न भवति । घटादौ तु तत्र एकेन्द्रियग्रहणयोग्यताऽपि वर्तते । द्वीन्द्रियग्रहणयोग्यताऽप्यस्ति । तदाहित्वं नास्ति । तथा च घटादौ विशिष्टारेभावरूपोहेतुरपि नास्तीति न व्यभिचारः । तथा च विशिष्टाभावस्तत्रैवायाति यत्र विशेषणाभावो, विशेष्याभावो वा उभयाभावो वा । रूपादौ तु विशिष्टाभावो वर्तते । रूपादौ एकेन्द्रियग्रहणयोग्यता विशिष्टा । एकेन्द्रियग्रहणयोग्यताया अभावो वर्तते । अत्र यद्यपि रूपादावेकेन्द्रियग्रहणयोग्यता विशेषरूपा तिष्ठति परं तथापि द्वीन्द्रियग्रहणयोग्यता विशेष्यरूपा नास्ति। तथा चत्र विशेष्याभावप्रयुक्तो विशिष्टा भाव इति ।
न चेति । तथापि प्रभाकर्मणि प्रभाचलनादौ व्यभिचारः । तत्र यद्यपि प्रभाकर्मणि 'चक्षुरूपैकेन्द्रियग्रहणयोग्यता वर्तते तथापि तत्र द्वीन्द्रियग्रहणयोग्यता नास्तीति हेतुर्वर्तते । हेतुस्तु विशिष्टाभावरूपः । गुणरूपत्वं च तत्र साध्यं नास्तीति व्यभिचारः ।
उद्धरति-कर्मान्यत्वेनेति । प्रभाया इति । यन्मते प्रभाऽप्रत्यक्षा तन्मते प्रभाकर्माप्रत्यक्षम् । तथा च हेतुसत्त्वे प्रभाकर्मणि न व्यभिचारः । अन्यथेति यदि प्रभाऽप्रत्यक्षा, न भवति तदा प्रभायामेव व्यभिचारो भवति । प्रभायाः चक्षुर्मात्र ग्राह्यत्वेन व्यभिचारः स्यात् । किमर्थं कर्मपर्यन्तधावनम् ?
तथा च प्रभाऽप्रत्यक्षैव स्वीकर्तव्या। तत्कर्म अप्यप्रत्यक्षमेव स्वीकर्तव्यम् । तेन प्रभाकर्मणि हेतुसत्त्वेन न व्यभिचार इत्यन्यमतार्थः ।
__ तयोरिति । बुद्ध्यादीनां गुणत्वं सिद्धम् । तदनन्तरं गुणेन गुण्यनुमानस्वीकर्तव्यम् । तथा च बुद्ध्यादयो द्रव्याश्रिताः गुणत्वरूपादिवत् । तेन बुद्ध्यादिगुणेन तदाश्रयोद्रव्यसिद्धम् । ततः
१. B -विशेष्ये. २. This प्रतीक is not found in त.भा.प्र. ३. B भावो भवति । रूपे हेतुरपि. ४. B omits उभयाभावो वा. ५. B चक्षुषैकेन्द्रिय.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org