________________
१७०
तर्कतरङ्गिणी नास्तीति व्यभिचार इत्यर्थः । अत्र हेतुमाह-व्यासज्येति । कदाचिद् भवता वक्तव्यम्, एकेन्द्रियग्रहणयोग्यता द्वीन्द्रियग्रहणयोग्यतोभयत्वावच्छिन्न प्रतियोगिताकोऽभावो वाच्यः । यथा घटपटौ न स्तः इत्यनया प्रतीत्या घटपटोभयत्वावच्छिनप्रतियोगिताकोऽभावो व्यासज्यवृत्तिधर्मप्रतियोगिताकोऽभावो घटत्वावच्छिन्नपटत्वावच्छिन्न प्रतियोगिताकाभावावच्छिन्न एव विषयीक्रियते । घटवत्यपि भूतले घटपटौ न स्तः इति प्रतीतेरुदयात् । तथा च यदि घटत्वावच्छिन्नप्रतियोगिताकाभावादतिरिक्तो व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकोऽतिरिक्तो न स्वीक्रियते, तदा घटवति भूतले घटपटौ न स्त इति प्रतीतिर्न स्यात् ।
न च घटवति भूतले घटपटौ न स्त इति प्रतीति: पटाभावविषयिण्येव, तत्र घटवति भूतले पटाभावस्य सत्त्वादिति वाच्यम् । तथा च यदि घटपटौ न स्तः इति प्रतीति: पटाभावविषयिण्येव तदा पटवति भूतले घटपटौ न स्तः इति प्रतीति न(न)स्यात् । तत्र च पटस्य सत्त्वात् । पटत्वावच्छिन्नप्रतियोगिताकाभावो वक्तुं न शक्यते । तत्र पटस्य विद्यमानत्वात् । पटत्वावच्छिनप्रतियोगिताकाभावं प्रति पटसत्त्वमेव विरोधि । तथा च यत्र भूतले पटो 'वर्तते तत्र पटत्वावच्छिनप्रतियोगिताकाभावो न तिष्ठति। तथा चातिरिक्तो द्वित्वावच्छिन्नप्रतियोगिताकोऽभावः स्वीकर्तव्य एव । तेन द्वित्वावच्छिनप्रतियोगिताकाभावं प्रति द्वित्वावच्छिन्न प्रतियोगिताकाभाव सत्त्वं विरोधि । तथा च यत्रैकपदार्थों वर्तते तत्र द्वित्वावच्छिनप्रतियोग्यसत्त्वेन तदवच्छिनप्रतियोगिताकाभावः स्थास्यत्येव । तथा च घटवति भूतले घटपटौ न स्तः इति प्रतीतौ घटपटोभयाभावविषयो भवति । तथा च "व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकाभावोऽतिरिक्तो नवीनै: स्वीक्रियते । विशिष्टाभाववदिति । व्यासज्यत्वं नाम यद्धर्माश्रयनिष्ठात्यन्ताभावप्रतियोगित्वम् । इदं च घटत्वादौ नास्ति । घटत्वस्य घटत्वाश्रये घटे घटत्वात्यन्ताभावस्य विरहात् ।।
इदं च द्वित्वे वर्तते । द्वित्वस्याश्रयौ भवतः घटपौ । घटनिष्ठात्यन्ताभावस्य प्रतियोगित्वं भवति घटे । यद्यपि घटपटोभयत्वं समवायसम्बन्धेन वर्तते तथापि पर्याप्ताख्यसम्बन्धेन घटे द्वित्वं नास्तीति उभयत्वं व्यासज्यवृत्तिधर्मो भवति । न च घटमात्रेऽपि द्वित्वं वर्तते एवेति वाच्यम् । तथा सति यत्र भूतले एक एव घटोवर्तते तत्र भवन्मते घटमात्रे द्वित्वस्य वर्तमानत्वात् द्वौ घटौ इति प्रतीति भवतु। न जायते च तथा प्रतीतिः।
__ तस्मादित्येकत्र पर्याप्ताख्यसम्बन्धेन व्यासज्यवृत्तिधर्म उभयरूपो नास्तीति व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिता[का] भावोऽतिरिक्त एव, तथा प्रकृतेऽपि "एकेन्द्रियग्रहणयोग्यतावत्यपि
१. B -भाववद् भिन्न एव. २. नास्ति (?). ३. B omits तेन. ४. B व्यासज्यधर्माव.. ५. It is विशिष्टाभावत्वात in त. भा. प्र. ६. B उभयं. ७. PI. add एकेन्द्रियग्रहणयोग्यतोभयत्वावच्छिन्नप्रतियोगिताकाभाव.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org