________________
तर्कतरङ्गिणी
१६९ चाहं गौरः, स्थूलः कृशः इति बुद्धेः शरीरविषयत्वमिति वाच्यम् । इदृशप्रतीते र्धान्तत्वात् । बाधकं च-योगिनां 'च तथा प्रतीत्यभाव एवेति । विप्रतिपत्ताविति-आत्मा शरीरभिन्नो न वेति विप्रतिपत्तौ शरीर भिन्नसाधनायामनुमानमाह एकेन्द्रियमात्रेति ।
प्रथमतो बुद्धादीनां गुणत्वं साधयति यथेति मूलम् । अन्यथैकेन्द्रियग्राह्यत्वं वर्तते । घटादौ चक्षुरिन्द्रियेणापि गृह्यते स्पर्शेनापि गृह्यते । तथा च द्वीन्द्रियादिग्राह्यत्वेऽप्येकेन्द्रियग्राह्यत्वमप्यस्तीति'। घटदौ तु हेतुसत्त्वे साध्यं गुणत्वरूपं नास्तीति व्यभिचारः । तथा च मात्रपदे दत्ते व्यभिचरवारणं वृत्तम् । घटादौ एकेन्द्रियमात्रग्राह्यत्वरूपो हेतुरपि नास्तीति भावः ।
इदं चेति एकेन्द्रियमात्रग्राह्यत्वमपि हेतुः रूपत्वे व्यभिचारी भवति । रूपत्वस्य चक्षुरिन्द्रियमात्रग्राह्यत्वात् । तत्र च गुणत्वरूपं साध्यं नास्तीति व्यभिचारः । तद्वारणायानित्यत्वे सतीति विशेषणं देयमिति भावः । तावन्मात्रमिति । यदि "नित्यत्वादित्येव हेतुः क्रियते तदा घटादावपि व्यभिचारः स्यात् । अतो विशिष्टरूपो हेतुर्वाच्य इत्यर्थः ।
ध्वंसावच्छिन्नसत्तायोगित्वमिति । उक्तव्यभिचारवारणायानित्यत्वस्य विवक्षां करोति ध्वंस इति । ध्वंसेनावच्छिन्नाव्याप्ता सत्ता । तद्योगित्वं तदसमवायित्वम् । तथा च रूपप्रागभावे ध्वंसावच्छिनसत्तायोगित्वरूपमनित्यत्वं नास्ति । सत्तायास्तत्राभावात् । तथा च यत्राधिकरणे सत्ता वर्तते तस्य यो ध्वंसः तस्य यो प्रतियोगी सोऽनित्यरूप इति । न तत्रेति रूपप्रागभावस्य यद्यपि ध्वंसो वर्तते तथापि तत्र सत्तायोगित्वं नास्ति-इति कृत्वा तत्र हेतुरपि नास्तीति न व्यभिचारः इत्याशङ्कार्थः।।
इदमपि दूषयति । विशिष्टोऽपि हेतु र्घटविशेष्ये व्यभिचारी वृत्तः । यथा यो घटश्चक्षुर्मात्रगौचरो वृत्तस्तदनन्तरं तस्य नाशो जातः । तत्र घटे ध्वंसावच्छिन्नसत्तायोगित्वे सति एकेन्द्रियमात्रग्राह्यत्वरूपो हेतुस्तिष्ठति । साध्यं च गुणत्ववरूपं तत्र नास्तीति व्यभिचार इत्याह-यो घटेति न चेति एकेन्द्रियमात्रेत्यत्र द्वीन्द्रियग्रहणयोग्यता राहित्यमित्यर्थो विवक्षितः । तथा चायं हेतुः पर्यवसन्नः । तथाहि ध्वंसावच्छिन्नसत्तायोगित्वे सति द्वीन्द्रियग्रहणयोग्यतारहित्वादिति यद्यपि पूर्वोक्तघटविशेषे ध्वंसावच्छिनसत्तायोगित्वं वर्तते तथापि द्वीन्द्रियग्रहणयोग्यताराहित्यं नास्तीति हेतोरप्यभावान्न व्यभिचार इत्यर्थः ।
दूषयति-अतीन्द्रियेति । तथा च द्वयणुकेन्द्रियादौ चोक्तहेतुः ध्वंसावच्छिन्नसत्तायोगित्वे सति द्वीन्द्रियग्रहणयोग्यताराहित्यरूपो हेतुर्वर्तते । परं तत्र गुणत्वरूपं साध्यं नास्तीत्यर्थः । न चेति तथा च द्वयणुकादौ प्रत्यक्षत्वं नास्तीति न तत्र व्यभिचार इति भावः ।
एकेन्द्रियेति । तथा चोक्तरूपो व्यभिचारो घटविशेष्ये तदवस्थ एव । द्वीन्द्रियग्रहणयोग्यताविरहाभाववति एकेन्द्रियग्रहणयोग्यता वर्तते एवेति कृत्वा हेतुर्वर्तते उक्तरूपः । परं गुणत्वरूपं तत्र साध्यं १. B omits च. २. B ग्राह्यमप्य.. ३. B -गुणरूपं. ४. B अनित्यत्वा.. ५. B -ऽनित्य इति । तर्क.-२२
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org