________________
१६८
तर्कतरङ्गिणी
एतद् दृष्टजन्यत्वमेव नियामकम् । यद् भोजकादृष्टेनोत्पादितं तस्यैव भोगात् । तथा चादृष्टस्यात्मगुणत्वात् अदृष्टस्य देशान्तरस्थिति (त) वस्तुना समं सम्बन्धाभावेन कथमदृष्टस्य तज्जनकत्वम् ? सम्बन्धव्यतिरेकेण कारणत्वाभावात् । तथा कार्यकारणभावानुरोधेनादृष्टवदात्मसंयोगरूपः सम्बन्धो वाच्यः । अयं च सम्बन्धः आत्मनो व्यापकत्वव्यतिरेकेण न सम्भवति । यदि चात्मा शरीरमात्रवृत्तिरेव भवेत् तदाऽदृष्टादावात्मसंयोगः तद्देशस्थितिभोज्यवस्तुना स[मं]न स्यात् । तथा च शरीरातिरिक्तदेशेऽप्यात्मनः सत्त्वात् व्यापकत्वम् । अदृष्टस्याव्याप्यवृत्तित्वेनात्मत्वाश्रये यत्र कुत्रापि स्थिति र्वाच्या ।
न च देहावच्छिन्नात्मनो वाऽदृष्टमिति वाच्यम् । आत्मनि क्रियाभावाच्छरीरस्य सक्रियत्वात् । शरीरावच्छिन्नात्मन्येव नादृष्टसत्त्वम् । ततो विभुत्वेन हेतुना आत्मनः शरीराभावत्वं साधनीयम् । 'आत्मनि शरीरं, विभुत्वात्, कालवदिति' । अथवा विभुत्वेन हेतुना नित्यत्वं साधनीयम् । नित्यत्वेन हेतुना शरीरान्योन्याभावः । शरीररत्वात्यन्ताभावः साधनीयः । अन्यथा यद्यात्मनो विभुत्वं नास्ति किन्तु यावच्छरीरवृत्तिरात्मेति तदा आत्मनो मध्यमपरिमाणवत्त्वं स्यात् । शरीरवत् । न चेष्टापत्तिः । मध्यमपरिमाणत्त्वेन घटादिवत्तस्यानित्यत्वं स्यात् । यथा - 'आत्माऽनित्यः, मध्यम' परिमाणत्वात् घटादिवत्' । न चात्रापि इष्टापत्तिरिति वाच्यम् । तथा सति बालकादेर्जातमात्रस्य स्तनपाने प्रवृत्तिरेव न स्यात् । प्रवृत्तिं प्रतीष्टसाधनताज्ञानस्यैव कारणत्वात् । जातमात्रस्य तदानीमनुभवाभावेन स्मरणमेव वाच्यम् । स्मरणं च संस्कार व्यतिरेकेण न सम्भवति । संस्कारस्तु जन्मान्तरीय एवेति तस्य नित्यत्वमिति । नन्वनया युक्त्या तस्य देहव्यतिरिक्तत्वं सिध्यतु । परमिन्द्रियव्यतिरिक्त्वं न सिध्यतीति शङ्कते श्रोत्रस्येति । तथा च श्रोत्रस्याकाशात्मकत्वेन विभुत्वात्, मनसश्च परमाणुत्वेन नित्यत्वात् । तथा च विभुत्वेन नित्यत्वेन च हेतुना इन्द्रियत्वाभावः साधयितुं न शक्यते । आकाशमनसो व्यभिचारात् । विभुत्वं च नित्यत्वं चाकाशेऽस्ति । तत्रेन्द्रियत्वाभावरूपं साध्यं नास्ति । कर्णशष्कुल्यवच्छिन्ननभस एव श्रोत्रत्वात् । तथा चेन्द्रियत्वाभावसाधने विभुत्वं नित्यत्वं च हेतुर्व्यभिचार वृत्त इति भावः ।
•
तथा चेन्द्रियत्वाभावमात्मनः प्रकारान्तरेणोपपादयति स चेतीति यथा चेदमनुमानम्'आत्मा नेन्द्रियम् मानसप्रत्यक्षत्वात्, सुखादिवदिति ।' इन्द्रियं तु प्रत्यक्षं न भवति । ततोऽनुकूलतर्कोऽयम्-‘यद्यात्मा इन्द्रियं स्यात्, तदा मानसप्रत्यक्षो न स्यात् । भवति च मानसप्रत्यक्षः, तस्मान्नेद्रियमिति ।'
-
'प्रत्यक्षमपीति । अहमिति मानसज्ञानविषयत्वेन प्रत्यक्षता । न चेदं शरीरविषयम् । तथा सति मम शरीरमिति भेदबुद्धिर्नस्यात् । जायते च भेदबुद्धिरिति अहमिति प्रत्यक्षविषयो न शरीरमिति । न
१. B - परिमाणत्वेन. २. A repeats here the whole previous sentence. ३. B वृत्ति:. ४. Bomits the reading between प्रत्यक्षम.... शरीरमिति ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org